________________
श्रीरूपसेन
चरित्रं
श्रीरूपसेन
चरित्रं
3282828282828282828282828
अथ तस्य रूपसेनकुमारस्य गच्छतो नकुल: प्रदक्षिणो जातः, एवं गच्छन् स क्रमेण वनपर्वतमालाचोल्लन्धयामास । अथ मध्याह्नसमये तस्यातीवतृड् लग्ना, तेन स चिन्तयामासाहो विदेशे महाकष्टानि,
वनं रौद्रं भयं तीव्र, तृषा मां बाधतेऽधिकम् । पादाभ्यां गमनं कष्टं, गन्तव्यं शतयोजनीम् ॥५७॥
अग्रे गच्छन् श्रान्तः सन् स एकस्य निम्बवृक्षस्य छायायामुपविष्टः । तत्र च स गतश्रम: शीतलांगो जातः, तदा तेन चिन्तितमहो विधात्रायमपि वृक्षो रोगनिवारणो निर्मितोऽस्ति, यत:
निम्बो वातहर: कलौ सुरतरुः शाखाप्रशाखाकुलः, पितन: कफमारुतवणहरो द्राक्पाचक: शोधकः । कुष्टच्छर्दिविषापहः कृमिहरस्तापस्य निर्नाशको, बालानां हितकारको विजयते निम्बाय तस्मै नमः ॥५॥ सामान्यवृक्षा अपि मार्गस्था: पथिकानामुपकारिणो भवन्ति, यत:
वरं करीरो मरुमार्गवर्ती, समग्रलोकं कुरुते कृतार्थम् ।
किं कल्पवृक्षैः कनकाचलस्थैः, परोपकारप्रतिलम्भदुःस्थैः ॥५९॥ क्षणं तत्र स्थित्वा यावत्सोऽग्रे गच्छति तावन्निर्मलशीतलजलपूर्णा नद्येका समागता । हृष्टेन
SAABRURURU28282828RROR
१९
॥
For Personal Private Use Only
Hinww.jainelibrary.org