SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ || कूर्मापुत्रचरित्रं Jain Educ RERERERERERERERERERERERx भरतक्षेत्रान्तर्वतिनो वैताढ्यपर्वतादिहागताः सन्ति । राजा प्राह-भगवन् ! तस्मिन् वैताढ्यपर्वतेऽधुना कोऽपि चक्रवर्ती वा केवली वर्तते नवा ?, जिनेश्वरः कथयति । हे राजन् ! अधुना भरतक्षेत्रे कोऽपि चक्रवर्ती नास्ति । परन्तु गृहवासस्थितः कूर्मापुत्रनामा एकः केवली वर्तते । इति श्रुत्वा जातसन्देहो राजा पुन: पप्रच्छ । भगवन् ! केवली सन्नपि गृहवासे तिष्ठति किमु ? | भगवान् उवाच - राजन् ! कुर्मापुत्रः केवली तु स्वमातृपितृप्रतिबोधहेतवे गृहवासे वर्तते । तदा चारणमुनय ऊचुः भगवन् अस्माकमपि कदापि केवलज्ञानं भविष्यति नवा ? प्रभुणाऽभाणि - युष्माकंस्वल्पकालानन्तरं केवलज्ञानं समुत्पत्स्यते हे स्वामिन् हे शिवगामिन् ! अस्माकं कदा भविष्यति केवलज्ञानम् ? इति कथिते सति जगदुत्तमनामजिनेश्वर अवोचत । यदा कूर्मापुत्र युष्माकं - महाशुक्रविमानकथां स्वयं कथयिष्यति तदा भोः विद्याधराः ! केवलं भविष्यति । सर्वेपि चारणमुनयो जिनेश्वरं नत्वा कूर्मापुत्रकेवलिनमुपजग्मुः । तदा कूर्मापुत्रः स्वयमेव भो मुनयः पूर्वं वयं महाशुक्राख्यदेवलोकविमाने एवंविधं सुखमास्वदयामासुरिति कथयति सति तद्वर्णनश्रुतमात्रेणैव समुत्पन्नजातिस्मरणास्ते पूर्वभवं स्मृतवन्तोऽनन्तरं क्षपकश्रेणावारुरुहुः । For Personal & Private Use Only REDEREREREREREREREDERERY कूर्मापुत्र चरित्रं ॥ १०६ ॥ w.jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy