________________
श्रीधन्यचरित्रम्
चतुर्थः पल्लवः
याममात्ररजन्यामतिक्रान्तायां ममाऽऽवासपश्चाद्भागे गवाक्षे विजनप्रदेशे स्थूलदवरकमयनाडिकां लम्बयिष्यामि । भवता तत्र निःश्रेण्यालम्बनेन आवासोऽलङ्करणीयः । बहुदिनाऽऽतुरायोरावयोः संयोगो भविष्यति । लक्षैरपि सुवर्णैरतिदुर्लभो दिवसोऽस्ति, अतो न विस्मरणीयः । इति सङ्केतनिर्णय कृत्वाऽऽगच्छ' | सख्याऽपि यथावसरं रूपसेनाय तं व्यतिकरमुक्त्वा सङ्केतनिर्णयः कृतः । सोऽपि चिरेप्सितसंयोगनिर्णयं श्रुत्वा, हर्षेण पुलकितहृदयो भूत्वा, 'ओम्' इत्युक्तवा, स्वगृहे गतः । प्रियसख्यापि स व्यतिकरः सुनन्दायै निवेदितः । साऽपि तं श्रुत्वा सहर्ष मनोरथमालां ग्रन्थयितुं लग्ना । अतिदुःखेन पञ्च दिनानि अतिक्रान्तानि । महोत्सवदिनाऽऽगते तु सपरिकरो भूपतिनगराद् बहिर्निर्गतः, समस्ता प्रजाऽपिच। अथ सुनन्दाऽऽमन्त्रणार्थ माता स्वयमागच्छति तावता पूर्वं कपाले औषधलेपं कृत्वा सुपर्यकेऽधोमुखं कृत्वा सुप्ता । मात्रा च दृष्ट्वा सुनन्दाऽऽलापिता-'पुत्रि ! किमस्ति तव दुःखम् ? । इति मात्रोक्तं श्रुत्वा मन्द-ग्लानस्वरेण प्रत्युक्तम् 'मातः ! अद्य षड्घटिकादिनशेषे काऽपि अकथनीया शिरोऽर्तिः संजाताऽस्ति, तया ऊर्ध्वमुखं कर्तुं न शक्नोमि' । मात्रोक्तम् 'तदा तु अहं वने न गमिष्यामि तवैव पार्थे स्थास्यामि' । पुत्र्योक्तम्'मातः ! एतत्तु न युक्तं प्रतिभाति । यतस्त्वं राज्ञोऽग्रमहिषी, सर्वासां मानुषीणां श्रेष्ठतमा, अतस्तव अगमने देवता प्रसन्नचित्ता न भवेत्, प्रत्युत कोऽपि महाविघ्नकृद् देवकोप उत्तिष्ठेत् । अतस्त्वया सपरिकरया तत्र गन्तव्यम्, सविशेष महोत्सवः करणीयः । अहमपि द्विचतुर्घटिकानामन्तः शिरोऽर्तिर्यास्यति तदा अविलम्बेनागमिष्यामि, न चेद् नहि । अतो मम प्रियसखीद्वयं मुक्त्वा अन्याः सर्वाः सहकृत्वा गन्तव्यम् । ममातिर्न कर्तव्या, यतोऽन्तरान्तरा कस्मिंश्चिद् दिने शिरोऽर्तिरूत्तिष्ठति, दिनमेकादिकं च स्थित्वा गच्छति, अतो विषादो न कर्तव्यः, स्वेच्छया सहर्ष महोत्सवः कार्यः' । इत्युक्त्वा माता विसर्जिता । प्रियसखीद्वन्द्वं च
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org