SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् चतुर्थः पल्लवः ॥२१॥ | मक्त्वा सर्वोऽपि दासी-दास-सौविदल्लादिपरिकरः पट्ट राज्ञया समं गतः । सुनन्दयापि सङ्केतितावसरे जाते पाश्चात्यगवाक्षे रज्जुमयी दृढनिःश्रेणी प्रलम्बायमाना मुक्ता । प्रियसखी क्षणे क्षणे तत्रागत्य रूपसेनागमनं विलोकयति, सुनन्दातल्पगवाक्षयोरन्तरा च भ्रमति। इतश्च अस्मिन्नेव पुरे महाबलनामा एको 'दुरोदरोऽस्ति, प्रत्यहं द्यूतव्यसनासक्तो द्यूतक्रीडां कुर्वाणः कलाक्षेपं करोति । तेन चाऽन्यदा द्यूतकीडारसेन बहुधनं हारितं, मस्तकेऽतिऋणं संजातम्, अन्ये च दुरोदरा धनार्थं तं पीडयन्ति । तदा महाबलेन चिन्तितम्-ऋणं तु बहु संजातं, कुतो दातुं शक्नोमि? । परन्तु अद्यैवाऽवसरोऽस्ति, यतः सर्वे जनाः सबाल-वृद्धा अद्य महोत्सवार्थं | बहिर्निर्गमिष्यन्ति सकलमपि नगरं विजनं भविष्यति । ततोऽहं मध्यरात्रौ नगरान्तः प्रविश्य कस्यापि धनिकस्य गृह-हट्टयोः प्रतिकीलकादिप्रयोगेण तालकोद्घाटनं कृत्वा धनं च लात्वा देयं दास्यामि, नाऽन्य उपायोऽस्ति' । इति संप्रधार्य तस्यामेव रात्रौ धनार्थ त्रिपथं चतुष्पथं गलिकुञ्चिकादिकं च परिभ्रमति । एवं च भ्रमणं कुर्वन् दैवात् तस्मिन्नेव सङ्केतस्थाने आगतः । तत्र च गवाक्षस्याऽधोनिःश्रेण्यादिसङ्केतचिहं दृष्ट्वा तेन कुबुद्धिनिधिना धूर्तेन चिन्तितम्-'अद्य कयाचित् स्त्रिया केनाऽपि यूना सह सङ्केतः कृतो दृश्यते । स चाधुना यावद् नागति इति विज्ञायते, तस्मात् 'चौराणां मध्ये मयूरः' इति न्यायेन अहमेवाऽत्र यामि, दृश्यते च किं भवति' । इति विचिन्त्य गवाक्षस्याऽधःप्रदेशे गत्वा निःश्रेणी संचालिता। तां च प्रकम्पितां मत्वा सद्यः प्रियसखी आगत्य गवाक्षस्याऽधःप्रदेशे विलोकयितुं लग्ना। तत्र च तं पुरुषं स्थितं दृष्ट्वा तया ज्ञातम्-'नूनं रूपसेनागमनं जातम्' । इति मत्वा तत्र १. द्यूतकाः। २. मनुष्यरहितम् । Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy