________________
श्रीधन्यचरित्रम्
॥९२॥
स्थितया तया चैवं सुनन्दायै ज्ञापितम् - 'आगतस्तव प्राण प्रियः' । तया च सहर्षमुक्तम्- 'आनयाऽस्मदीयगृहान्तः' । तदा च | प्रियसख्या 'यूयमागताः ' ? इत्यालापितः । धूर्तेन च 'ओम्' इत्युक्तम् । तदा प्रियसख्या रूपसेनभ्रमेणोक्तम्- 'आगम्यतामत्र पूज्यपादैः, अलंक्रियतामिदं मन्दिरं, निजागमनेन सम्पूर्यन्तामस्मत्स्वामिनीमनोरथाः । इति शिष्टाचारवचनानि श्रुत्वा धूर्तेन ज्ञातम् -'यद् मयाऽनुमितं तदेवास्ति, अतो यामि सुखेन' । इति संप्रधार्य निःश्रेणीमार्गेण चटता यावता गवाक्षान्तः |धृतस्तावता - महोत्सवार्थम् उपवनस्थितया पुत्र्यां गाढाऽनुरागरक्तया राज्ञ्या स्वसखीवृन्दायाऽऽज्ञा दत्ता यद् 'यूयं राजकीयान् भटान् लात्वा राजमन्दिरं गच्छत, गत्वा च मम प्राणाऽधिकायाः सुनन्दायाः शुद्धिर्विशदरीत्या ज्ञातव्या, सुखप्रश्नश्च वक्तव्यः, ततः | परम् अमुकमञ्जूषास्थितम् अमुकपूजाद्रव्यं सावधानत्वेन निष्काश्य, पुनः पुत्र्याः शुद्धिं लात्वा भटैः सह त्वरितमागन्तव्यम्,’ इति राज्ञ्या नियुक्तं सखीवृन्दं भटैः सह तस्मिन्नवसरे मन्दिरान्तः प्रविश्यमानं दूरतराद् दृष्ट्वा 'हा ! किं जातम् ?, इदि मन्तरायकर्म कुतः समागतम् ? मा जानातु रूपसेनागमनम्" इति ध्यात्वा प्रियसख्या शीघ्रं हस्तेन दीपो निर्वापितः । धूर्तं च हस्ते | गृहीत्वाऽन्धतमसि सुनन्दायास्तल्पे मुक्त्वा किमपि वक्तव्यं नैव' इत्युक्त्वा च प्रियसखी प्रविश्यमानं सखीवृन्दं प्रति सम्मुखं |गता । ताभिरुक्तम्- 'सुनन्दा कुत्राऽस्ति ?, सुनन्दायाः कीदृगवस्थाऽस्ति तां कथय । पुनः सुनन्दा कुत्र सुप्ताऽस्तीति दर्शय । तथा च, किमद्य राजमन्दिरेऽन्धकारो दृश्यते' ? । इति तासां वचांसि श्रुत्वा प्रियसख्योक्तम्- "भगिन्यः ! सुनन्दा तु शिरोऽर्त्या प्रभूतां पीडां प्राप्ता, ईदृशी तु शत्रोरपि मा भूत ! । सा यादृशीपीडां प्राप्ता तां द्रष्टुमपि न शक्यते । तया तल्पे तप्यमानयोक्तम्'अहमिमं दीपरितापं क्षमितुं न शक्नोमि, अतो निर्वापय दीपम्' । ततो मया दीपो निर्वापितः । ततो घटिकाऽर्धघटिका संजाताऽस्ति,
Jain Education International
For Personal & Private Use Only
चतुर्थः
पल्लवः
॥९२॥
www.jainelibrary.org