SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् चतुर्थः पल्लवः ॥९३॥ किमपि नेत्रे मिलिते स्तः, ततोऽधुना सुखप्रश्नाऽवसरो नाऽस्ति । साम्प्रतं तु उच्चैर्वक्तव्यं नैव, यावता सुखनिद्रां प्राप्ता स्थिता तावता तु गृहान्तरमपि नाऽऽगन्तव्यम् । यदा स्वयं जागर्ति तदा सुखप्रश्नः कार्यः" । तदा एकया सख्योक्तम्-चलामो राज्या मन्दिरम्, यावतां सुनन्दा सुखनिद्रया सुप्ताऽस्ति तावता राज्योक्तं कार्य कुर्मः, पुनर्वलमानाः, सुनन्दायाः शुद्धिं लास्यामः' । इत्युक्त्वा सखीवृन्दंतु गृहान्तरंगतम्। अथ सधूर्तः प्रियसख्या मुक्तः सुनन्दायास्तल्पे स्थितः कामातुरः करस्पर्शादिना उद्दीप्तकामः प्रथममेव सुरतक्रियां कर्तुं लग्नः । सुनन्दया ज्ञातम्-'बहुदिनसंयोगातुरोऽयं मे वल्लभः कथं निवार्यते ?, सुखेन स्वेच्छां पूरयतु, ममापि विरहाऽग्निः शाम्यतु । वार्तादिकं पुनः संयोगे करिष्यामि, कदाचित् सखीवृन्दगमनं भविष्यति चेत् तदाऽन्तरायोऽस्य मा भूत' । इति ज्ञात्वा सुनन्दया किमपि नोक्तम् । स दृढकायो धूर्तो यथेच्छं सुरतक्रीडां कृत्वा यावता निवृत्तस्तावता तु दीपहस्तं सखीवृन्दं पुनः समागच्छत् शुद्ध्यर्थ स्थितया प्रियसख्या दूरतो दृष्ट्वा धावन्त्या गृहान्तरात्योक्तम्-"निर्वासयतु त्वरितं वल्लभम् । किं क्रियते आत्मनां कर्मणां दोषस्य ?, यद् बहुदिनैरीप्सितसंयोगे एका वार्ताऽपि स्वेच्छया न कृता । अधुना तु त्वरितं यातु, पुनर्भाग्योदये मिलनं भविष्यति तदा हृद्गतां सर्वां वार्ता करिष्यामः' |धूर्तेनाऽपि चिन्तितम्-'अधुना स्थिते को लाभः?,अज्ञातमेव वरम्' इति ध्यात्वा सुरतक्रीडाच्युतहारादिभूषणं लात्वा त्वरितं तेनैव मार्गेणोत्तीर्णः । मनसि सहर्ष ध्यातवान् - 'अद्य मम शुभशकुनैर्निर्गमनं संजातम्, यद् राजकुमार्या सह प्रथमं सुरतसुखं धनं च लब्धम् । इति चित्तप्रसत्त्या स्वस्थानं गतः। प्रियसख्यपि निःश्रेण्यादि त्वरितं गुप्तं कृत्वा सुनन्दायाः पादसंवाहनादि कर्तुं लग्ना, तावता स दीपं सखीवृन्दमप्यागतम्। सुनन्दाय राजयोक्तं सुखप्रश्नं कर्तुं प्रवृत्तम् । सुनन्दयापि स्वाङ्गादिकं सङ्कोच्य मन्दस्वरेणोक्तम्-"सख्यः ! पुरा तु मया प्रभूता वेदना प्राप्ता, यादृशी ॥९३॥ Jan Education Internationa For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy