SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् ॥९४॥ कस्यापि मा भवतु, अधुना तु द्वि-त्रिघटिकातः शान्ताऽस्ति । पुनश्चेतनाऽऽगमिष्यति तदा तु वरम् । अतो मातुर्मम प्रणतिर्वक्तव्या, यथादृष्टं च वक्तव्यम् । पूर्वं बहुतरवेदनापराभूता बहु जल्पितुं न शक्नोमि, परन्तु ज्ञायतेऽधुना मातुः शुभचिन्तनयाऽऽर्तिर्गता । 'मात्रा ममार्तिर्न कर्तव्या' इति वाच्यम्" । इति सुनन्दायाः शुद्धिं लात्वा पूजादिद्रव्यं च गृहीत्वा सखीवृन्देन भटैः सहोपवनं गत्वा राज्ञ्यै सर्वं निवेदितम् । राज्ञ्यपि स्वस्थचित्ता संजाता सती महोत्सवे प्रवणाऽभूत् । अथ विषयाकुलरूपसेनप्रबन्धं श्रृणु-रूपसेनो हि शरीराऽपाटवमिष कृत्वा पित्रादिकं विप्रतार्य एकाकी एव गृहे स्थितः । सुनन्दामिलनमनोरथैर्निभृतहृदयो रात्रिप्रथमयामे गते सर्वां भोगसामग्रीं लात्वा गृहकपाटादिकं तालकादिप्रयोगेण दृढतरं कृत्वा निर्गतः । मार्गे मनसि विचिन्तयन् याति विविधान् मनोरथान् । तद्यथा- 'धन्या अद्य मे रात्रिः, यद् मनो-वचन| कायैकतानप्रेमाऽन्विताया राजकुमार्या मिलनं भविष्यति । मूर्खस्य समग्र जन्मसङ्गत्या यत् सुखं न भवति तत् चतुरजनघटिकामात्रसंयोगे सुखमनुभूयते, तद् वक्तुं नैव पार्यते । अथाऽहं तत्र गत्वा वियोगजं दुःखं भङ्क्त्वा विविध सूक्तसुभाषित-प्रहेलिका- छन्द-छप्पया-ऽन्तर्लापिका - बहिर्लापिका - समस्या-गाथा - गूढदोधकादिनिपुणोक्तिभिः तस्याश्चितं रज्जयिष्यामि । साऽपि अतिविदुषी विविधाशयगर्मितहाव-भाव - कटाक्षविक्षेप-वक्रोक्तिभिर्मम हृदयं प्रह्लादयिष्यति । आवां परस्परं चित्तविरहजं दुःखं निवेदयिष्यावः । तथा चाटुवनामृतैः सिञ्चितो मनोरथतरुर्नवपल्लवितो भविष्यति । मम चातुर्येण आह्लादितहृदया कल्पवल्लीव मनोरथफलदा भविष्यति । विविधाऽऽसन- कामनिवासस्थानसंमर्दना -ऽऽलिङ्गनादिसुरतक्रियाभिः 'अमर्यमरयोरिव सुरतक्रीडां करिष्यावः' । इत्यादिमनोरथाऽऽर्तध्याननिभृतहृदयो रात्रि - रागयोरन्धतमसि तामेव स्मरन् मार्गे १. देवी- देवयोरिव । Jain Education International For Personal & Private Use Only चतुर्थः पल्लवः ॥९४॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy