________________
श्रीधन्यचरित्रम्
चतुर्थः पल्लवः
-
याति, तावता एका महती निःस्वामिकाऽऽवासस्य वर्षाजलप्रवाहैः शिथिलाकृता अपरिकर्मिता भित्तिर्दैवात् तस्योपरि पतिता। तस्याः पतनघातेन चूर्णीभूताऽङ्गोपाङ्गो रूपसेनः पञ्चत्वं प्राप्य एकदिनऋतुस्नातायाः सुनन्दायाः कुक्षौ दुरोदरीकृतसंयोगजन्यवीर्यरक्त गर्भत्वेन उत्पन्नः । विचित्रा हि अध्यवसायानां गतिः, शतसो वैरयुक्तो वैरी यद् दुःखं न ददाति तद् विषया ददाति। यतः -"विषयाणां विषाणां च दृश्यते महदन्तरम् । उपमुक्तं विषं हन्ति विषयाः स्मरणादपि" ||२||
अथ सुनन्दा सखीवृन्दे गते सुरतक्रियाच्युतानि भूषणानि गवेषयति, कियन्ति लब्धानि कियन्ति च न लब्धानि । तदा तया ज्ञातम् 'वल्लभः त्रुतितानीति ज्ञात्वा गृहीत्वा गतो भविष्यति, सज्जीकृत्य प्रेषयिष्यति' । पुनर्विचारितम्-'सर्वाणि कथं न गृहीतानि' ?। सख्योक्तम्-'सखीवृन्दागमनेन सम्भ्रान्तचित्तत्वाद् यद् हस्ते चटितं तद् लात्वा गतः । श्वो दिने तच्छुद्धिं करिष्यावः' इति वार्ता कुर्वत्यौ ते निद्रावशङ्गते।
अथ प्रभाते संजाते सर्वे जना राजा च स्वस्वगृहमागताः । रूपसेनस्य पिताऽपि सपरिकरो गृहमागतः गृहद्वारे तालकं दृष्ट्वाऽनुमितम् - 'कस्मिन्नपि अवश्यकार्योद्देशे देहचिन्तार्थं वा गतो भविष्यति' । घटिकाद्वयमात्रं द्वारे स्थितास्तथापि नागतस्तदा तु किञ्चित् चिन्तां कुर्वन्तः सर्वेषु परिचितस्थानेषु भ्रात्रादयोऽन्येऽपि च सम्बन्धि-सेवकजना गवेषणायै धाविताः । परं कुत्रापि न लब्धः । तदा तु पितृ-भ्रातृप्रमुखाः सर्वेऽपि सम्बन्धिनो महतीमार्तिं कुर्वाणाः समस्तं नगरं उपवनादि च तच्छुद्ध्यर्थ परिभ्रमन्तः
१. अपरिष्कृता। २. मृत्युम्। ३. दूरोदरो द्यूतकाः ।
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org