________________
श्रीधन्य
चरित्रम्
॥९६॥
Jain Education International
परिश्रान्ताः परं कुत्रापि वार्तालेशमात्रमपि न श्रुतम् । तदा रूपसेनपिता लोहकारपार्श्वात् तालकोद्घाटनं कारयित्वा शोकाकुलो भार्यादिपरिकरं गृहे स्थापयित्वा तदार्तिव्याकुलो राजद्वारे गतः । दीर्घनिःश्वासान् अश्रूणि च मुञ्चन् राजानं नत्वाऽग्रे स्थितः । राज्ञाऽपि तं दृष्ट्वा प्रोक्तम्- 'भो इभ्यवर ! किं तवाऽनिर्वाह्यं दुःखं समुत्पन्नं तद् धीरो भूत्वा निवेदय, यथाऽहं तव दुःखं स्फेटयामि । त्वं मम नगरमण्डनोऽसि ममातिप्रियोऽस्ति तव दुःखं दृष्ट्वा तदुःखं मच्चिते सङ्क्रान्तम्' । तदा हृदयस्फोटजायमानेन पित्रा किमपि निवेदितम् । राजाऽपि तच्छ्रुत्वा महदाश्चर्य-शोकं प्राप्तः । श्रेष्ठिनं धीरयित्वा शतशः सेवकानाहूय तच्छुद्धयर्थ समग्रे पुरे पुरवने ग्रामान्तरे वापीकूपादिषु 'पण्याङ्गनागृहेषु च शतक्रोशं यावद् गवेषणा उष्ट्रादिप्रयोगेण कारिता, परं यथा गतास्थैव व्याघुट्याऽऽगताः, तस्य वार्ताया गन्धलेशोऽपि न लब्धः । राजापि तच्छ्रुत्वा महाश्चर्यसङ्कटे पतितः । परं कर्मणां विचित्रा गतिः, अतिशयज्ञानिनं मुनिं विना को जानाति ? श्रेष्ठी निराशो भूत्वा गृहमागतः । षण्मासं यावद् बहुद्रव्यव्ययं कृत्वा गवेषणा कारिता. परं वार्ताया गन्धले शोपि न लब्धः । दैवगतिं को वारयति ? महत् तद्द्द्वियोगशल्यदुःखं वहन् कालं दुःखेन निर्गमयति । अथाऽन्यदिने सुनन्दायाः प्रियसख्या जनमुखात् श्रुत्वा तद्द्वार्ता सुनन्दायै निवेदिता । साऽपि श्रुत्वा महदुःखं प्राप्ता सखीं प्रति वक्तु लग्नां'किमत्राऽऽगत्य केनापि दुष्टेन आभरणादिलोभेन मारितः प्रहृतो वा ? । तयापि तच्छुद्धयर्थ महद्गवेषणं कृतं कुत्रापि काऽपि शुद्धिर्न प्राप्ता । अथ च मासाधिके दिने संजाते गर्भस्य चिह्नानि छर्दिअङ्गभङ्गादीनि प्रादुर्भूतानि । तया च सख्यग्रे तत्स्वरूपं निवेदितम् । तयाऽपि उद्दाहकारणं मत्वा जन्मादिकारिकाणां कुट्टिन्यादीनां बहु द्रव्यं दत्त्वा क्षारौषध्यादिप्रयोगेण गर्भस्य पातनं
१. वेश्यागृहेषु । २. छर्दिः - वमनम् ।
For Personal & Private Use Only
चतुर्थः
पल्लवः
॥९६॥
www.jainelibrary.org