SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् चतुर्थः पल्लवः ॥९७॥ कारितम्। ततो रूपसेनजीवश्च्युत्वा सर्पिणीकुक्षौ तृतीयभवे नागतयोत्पन्नः। सुनन्दयाऽपि सखीद्वारा मातुरग्र ज्ञापितम्-'अधुना | मम विवाहं कुरु' । तच्छुत्वा मात्राऽपि राजानं निवेद्य सहर्ष क्षितिप्रतिष्ठितपुराधीशेन सह पाणिग्रहणं कारितम् । बहुसुवर्णरत्नगज-तुरगादिकं दत्त्वा जामातरं प्रसन्नं कत्वा सभर्तृका सुनन्दा विसृष्टा । क्षितिप्रतिष्ठितपुराधीशोऽपि तां गृहीत्वा सोत्साह स्वपुरमागतः । तया सह पञ्चविधान् मानुष्कान् कामभोगान् भोक्तुं प्रवृत्तः सुखेन कालनिर्गमनं करोति । अथ रूपसेनजीव: सर्पिणीगर्भाज्जातोऽपि आयुर्योगेन मातुर्भक्षणविघ्नाद् उद्गीर्णो वृद्धि प्राप्तः । पृथिव्याम् आहाराद्यर्थं परिभ्रमणं कुर्वन् कदापि कर्मोदययोगेन राजमन्दिरं गतः। .. अथ तत्र निदाघसमये तौ दम्पती स्वावासवाटिकायां जलयन्त्रादिकृतशीतलप्रदेशे स्वेच्छया रमेते। नागोऽपि दैवात्तत्रागत्य सुनन्दां च दृष्ट्वा पूर्वनिबद्धारागोदयात् स्तम्भितः फणाटोपं कृत्वा सम्मुखं स्थितः, घूर्णयति च । सुनन्दाऽपि तं दृष्ट्वा भीता । पूत्कारं च कृत्वा पलायनं कृतम्, तदा स सर्पोऽपि पृष्ठे लग्नः परिभ्रमति । ततः सुनन्दया सविशेष पुत्कृतम्-'अरे ! धावत, धावत एष सर्पो मम दंशनार्थ मम पृष्ठे लग्नो धावति' । राज्ञा च तच्छुत्वा सेवकैः शस्त्रैण मारितः । मृतश्चतुर्थभवे ध्वाङ्क्षजातिषु ध्वाङ्क्षतयोत्पन्नः । क्रमेण जातो वृद्धि प्राप्तो नगरे परिभ्रमति । एकदा परिभ्रमणं कुर्वन् राजवाटिकायां महति वृक्षे शाखायां तस्य फलादिभक्षणं करोति। तस्मिन्नवसरे तौ दम्पती पुष्पादिप्रकरशोभा द्रुष्टुं तत्र वाटिकायां बहुपरिकरयुतौ चतुर्मुखाऽऽवासे स्थितौ विलासं कुरुतः । मुखाऽग्रे गायकजनाः समयोचितं दिव्यम् अतिमधुरम् अनेकाऽऽतोद्यध्वनिमिश्रितं सङ्गीतगानं कुर्वन्ति, तौ च गान रसमग्नौ एकचित्तेन श्रृणुतः, कोऽप्यन्यो न च वदति । ईदृशेऽवसरे स वायसो भ्रमन् तत्रागतः । आवाससम्मुखवृक्षशाखायां स्थितस्य इतस्ततः पश्यतः सुनन्दा दृष्टिपथमागता । पुनः रागोदयो जातः, तेन रागोदयेन स हर्ष । ॥९७॥ Jan Education Internal For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy