SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् ॥ ९८ ॥ | प्राप्त इतस्ततो भ्रमति, गाढस्वरेण पूत्करोति अथ तस्य अशुभनामकर्मोदयजनिताऽतिकर्कशकर्णकटुकशद्बोच्चारणेन गीतगानभङ्गो भवितुं लग्नः तदा राज्ञा सेवकजनेभ्यः प्रोक्तम्- 'भो भो मूर्खजा, ! इदृशेऽप्यवसरे गीतरसविघ्नकृत्पक्षिणं कथं नोड्डाययथ' ? । तं राजादेशं श्रुत्वा सेवकैर्वायस उड्डायितोऽपि पुनः क्षणान्तरे तत्रैवागत्य तथैव पूत्करोति स्म । एवं द्वि-त्रिचातुर्वारम् उड्डाप्यमानोऽपि मोहोदयाद् न विरमति । तदा क्रुद्धेन राज्ञा गोलिकाप्रयोगेण हतो भूमौ पपात । मृत्वा च तत्रैव नगरोपवने कलहंसतयोत्पन्नः । पूर्णगर्भस्थितौ 'जातायां जातो हंसः । क्रमेण प्रवर्धमान आहाराद्यर्थं सरस्सु वृक्षान्तरेषु च | भ्रमन् स्वेच्छया कालं निर्वहन् परिवसति । अथाऽन्यदा ग्रीष्मर्तौ सघनवृक्षाणां कुञ्चप्रदेशे जलयन्त्रसिक्तशीतलभूप्रदेशे संघनच्छायानिवारिताऽऽतापपीडस्य वटस्याऽधः स्थितौ अग्रतो गायकजना अनेकरसोक्तिगर्भितगीतगानं कुर्वन्ति । ईदृशे समये रूपसेनजीवो हंसः परिभ्रमणं कुर्वन् तस्यैव वटस्य शाखायामागत्य यावत् तिष्ठति तावता सुनन्दा दृष्टिपथमागता । पुनर्मोहोदयो जातः पुनः पुनस्तस्या मुखं पश्यन् मधुरस्वरेण 'कूजति, एकदृष्ट्या लीनो भूत्वा पश्यन् स्थितः । तस्मिन्नवसरे कोऽपि काक उड्डीयमानस्तत्रागत्य तत्रैव 'हंसाऽभ्यर्णे स्थितः । अथ तेन काकेन राज्ञः शुभ्राणि वस्त्राणि दृष्ट्वा तेषामुपरि "विविसर्जनं कृतम् । तद् दृष्ट्वा कुपितो राजा गोलिकायन्त्रं धनुष्कं हस्ते गृहीत्वा यावद् गोलिकां विसृजति तावताऽवसरज्ञः कुटिलः काकः पलायितः, गोलिका तु मोहमूर्च्छितस्य हंसस्य लग्ना । तस्या घातेन हंसः तडफडायमानो राज्ञोऽग्रे निपतितः । सभ्यजनैरुक्तम्- 'स्वामिन् ! काककृतं पापं वराकस्य हंसस्य लग्नम्' ! । तदाऽन्येनोक्तम्- 'सङ्गतिफलमीदृशमेव भवति' । तं दृष्ट्वा राजाऽपि सकरुणो जातः परं किं करोति ? लग्नं न लग्नं न भवति । Jain Education International १. गर्भस्थितिपूर्णे । २. शब्द करोति । ३. हंससमीपे । ४. विड् विष्ठा । For Personal & Private Use Only चतुर्थः पल्लवः ॥९८॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy