________________
श्रीधन्यचरित्रम्
चतुर्थः
पल्लवः
॥९९॥
हंसस्तु क्षणान्तरे मृत्वा तस्य देशस्याऽरण्ये हरिण्याः कुक्षौ हरिणतयोत्पन्नः। 'पूर्णगर्भस्थितौ जातो हरिणः, मातुः पयःपानं कुर्वन् तया सह परिभ्रमति क्रमेण प्रवर्द्धमानो यौवनं प्राप्तो हरिणयूथेन सह बने परिभ्रमति। तृण-जलवृत्त्या सन्तुष्टः सुखेन कालं निर्गमयति। अथ चैकदा सुनन्दया राज्ञे पृष्टम्-यूयं यदा आखेटकक्रीडां कर्तुं विपिने गच्छथ तदा तत्र कथम् अतिचपलगतिकान् । मनुष्याणां दर्शनमात्रेण पलायमानान् हरिणान् स्वायत्तीकुल्य मारयथ' ? | राजा प्राह-'प्रिये ! गानेष्वतिकुशलान् स्वसेवकान् सहादाय वनगहने यामः । तत्र सेवका वृक्षाधः स्थित्वा अतिमधुरस्वरेण गानं कुर्वन्ति । तस्मिन् रागाणां ग्राम मूर्च्छनां श्रुत्वा रागान्धा हरिणाः शनैः शनैरागच्छन्ति। टोडि-सारङ्ग-सिन्धुप्रमुखरागध्वनिषु मूर्च्छितास्तदेकचित्ता गायकसमीपमागता निर्भया हस्तग्राह्याः सुखेन तष्ठिन्ति। तदा च अन्ये सेवका दूरं गत्वा स्थूलदवरकमयया महत्या जालिकया परितो वनं बन्धयन्ति। ततो गानाद् विरमन्ति। पश्चात् ते पलायनं कुर्वन्ति, परं वनबन्धात् कुत्र यान्ति?। ततो वयं धावमानान् तान् हन्मः, अथो जीवतोऽपि गृह्णीमः' । सुनन्दा प्राह-'निरापराधान् तृणभृतसुखान् वराकान् एतावत्या महत्या कष्टक्रियया हनने को लाभः ? । राज्ञोक्तम्'अस्माकं राजधर्मोऽस्ति। अस्मत्पृथिव्याम् अस्मदीयानि तृणानि चरन्ति पानीयं पिबन्ति, न च किमपि ददति, तेन अस्मदपराधेन वयं कियतो हरिणान् हन्मः । न च तत्र दोषोऽस्ति । लाभश्च, यत उक्तमस्ति-'परिचयश्चललक्षनिपातने' इत्यादि । सुनन्दया तच्छुत्वा सर्व सत्यमिवाऽवधारितम् ‘एवमेव भविष्यति' ।श्रीजिनवाण्या अविद्धकर्णानां कुतस्तत्त्वप्राप्तिर्भवति?। ततः सुनन्दया प्रोक्तम्-'प्राणनाथ ! महाश्चय कारिणीमेनां क्रीडां मह्यं दर्शयतु । राज्ञोक्तम्-'वरम्, अथ यदि गरिमष्यामस्तदा त्वां सहादाय
१. गर्भस्थितिपूर्णे। २. मृगयाक्रीडाम्।
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org