________________
श्रीधन्यचरित्रम्
चतुर्थः
पल्लवः
॥१०॥
गमिष्यामः' । अथ कियत्यपि दिने गते राज्ञोक्तम्-'वो दिने आखेटक्रीडां कर्तुं गमिष्यामः तव द्रष्टुमिच्छा चेद् सहाऽऽगन्तव्यम्'। | द्वितीयदिने राज्ञी सहादाय ससैन्यो भूपतिर्महावनगहने गत्वा महातरुतले स्थित्वा सेवकेभ्य आदिष्टम्-'गीतगानादिप्रयोगेण |..
हरिणयूथमानयत' । सेवकैरपि पूर्वोक्तव्यतिकररेण गीतकलया हरिणयूथमानीतम् । तदा राजा राज्ञी च तुरङ्गमाणामश्वावारिकां | कृत्वा तत्र गतौ तत्र हरिणयूथं रागाकृष्टचित्तं चित्रलिखितमूर्तिरिव एकध्यानेन स्थितं श्रृणोति । अथ तन्मध्ये रूपसेनजीवोऽपि संजातहरिणः समस्ति । इतस्ततो भ्रमणं कुर्वती तुरङ्गमारूढा सुनन्दा तेन हरिणेन दृष्टा । पुनर्मोहोदयो जातः अथ स हरिणो रागान्धस्तां दृष्ट्वा मोहान्धश्च जातः । स च सहर्ष नरीनृत्यति पुनः पुनस्ताम् एकदृष्ट्याऽवलोकयति, हर्षति च । तावता सेवकै रागविसर्जनं कृतम्। तदा सर्वे हरिणा दिशोदिशं पलायितुं लग्नाः । रूपसेनजीवो हरिणस्तु तत्रैव प्रमोदभृत् स्थितः । राजा च तं तदवस्थं दृष्ट्वा राज्ञी प्रत्युवाच-'प्रिये ! पूर्णरागाऽसक्तोऽयमेव मृगः यतोऽन्ये मृगा रागविरामे नष्टाः अयं पुना रागाऽऽशया स्थित एव। मृगो भरयौवनउपचितमांस 'श्रोणिदृश्यते, अस्य मांसमतिभव्यं भविष्यति' । इत्युक्त्वा कर्णाकृष्टबाणेन हतो भूमौ पातितः । क्षणेन मुक्तप्राणो बिन्ध्याद्रौ करिणीकुक्षौ हस्तित्वेनोत्पन्नः ।
अथ राजा तन्मृतहरिणशरीरं सेवकैाहयित्वा अतिशोभने आत्मीयवाटिकावासे उत्तीर्णः । ततः सूपकारेभ्य आदिष्टम्'अस्य पलं भव्यरीत्या पचन्तु, विविधशुभमेलापकद्रव्यैः संस्कारं कुर्वन्तु' । सेवकै राजादेशं लब्ध्वा विविधर्मेलापकराजद्रव्यैः संयोज्य घृतेन मांसपाकं कृत्वा स्वर्णमयभाजने भृत्वा राज्ञोऽग्रे धृतम्। राजाऽपि यथार्हमन्येभ्यो दापयित्वा, राजा राज्ञी च उभौ
१. श्रोणि कटीः। २. मांसम्।
॥१०॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org