SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् चतुर्थः पल्लवः भक्षयितुं प्रवृत्तौ । स्वादं च लब्ध्वा पुनः पुनः प्रशंसयितुं लग्नौ-इदं मृगमांसमतिभव्यतरम्, पूर्वं बहुशोऽपि भुक्तं परमस्य तुल्यतां न करोति। अथेदृशे समये सातिशयज्ञानयुक्तं मुनियुगलं भाग्येन तत्र समागतम्। मार्गे गमनं कुर्वता असमञ्जसं दृष्ट्वा एकेन मुनिना ज्ञानोयोगेन तत्सर्वं भूतपूर्वं वर्तमानं च ज्ञात्वा अन्यमुनये प्रोक्तम्-'पश्यतु निरर्थककर्मणां विपाकबलम् ! । 'अयं केवलमनोयोगविकल्पकल्पनामात्रकृतकर्मबन्धः कया रीत्या भवे भवे योगत्रिकैर्विरूपरूपैः वेद्यमानोऽपि न निर्जीर्यति, अकाले | मरणं च प्राप्नोति! । यस्याः कृतेऽयं जीवो भवे भवे वक्तुमशक्यं कर्मक्लेशजं दुःखं वेदयति सा तु सहर्षं तस्य मांसमत्ति । अतो धिगस्तु असारसंसारगतसांयोगिक भावप्रतिबन्धम्' । इत्युक्त्वा शिरो धुन्वन् मुनिरग्रतश्चलितः । तत्सर्वमास्थानद्वारस्थिताभ्यां दम्पतिभ्यां दृष्टम् । दृष्ट्वा च तच्छुद्ध्यर्थं राज्ञा मुनिरालापितः-'भो मुने ! भवता यत् शिरोधूननं कृतं तत् किम् अस्माकं पलभक्षणक्रियया दुगञ्छाहेतोः, किं वा कोऽप्यन्यहेतोः? । ततः पलभक्षणस्य तु परम्परयाऽस्मत्कुले प्रवृत्तिरेवाऽस्ति। युष्मादृशां महापुरुषाणां तु निर्निमित्तं शिरोधूननं जुगुप्सा च न भवति । अतः पृच्छामि केन हेतुना शिरोधूननं कृतम् ? । ततो मुनिराह'राजन् ! यद् भवतोक्तम् ‘मांसभक्षणस्य तु अस्मत्कुलप्रवृत्तिरेव' तत्तु वयमपि जानीमः । अनादिविभावस्वभावोऽयं जिनवाण्याऽविद्धकर्णो जीव इन्द्रियैर्वशीकृतस्तदर्थं किं किं न करोति ? । यतः - "आत्मभूपतिरयं सनातनः पीतमोहमदिराविमोहितः। किङ्करस्य मनसोऽपि किङ्करैरिन्द्रियैरहह ! किङ्करीकृतः" ||१|| ॥१०१॥ १.रूपसेनजीवः। २. निर्जरणां करोति। Jan Education International For Personal & Private Use Only wwwww.jaineibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy