________________
श्रीधन्य-
चरित्रम्
चतुर्थः
पल्लवः
॥१०२||
संसारविज्ञानविकलो जीवो मिथ्यात्वा-ऽविरति-कषाय-योगादिभिः प्रेरित इन्द्रियुसखप्रतिबन्धबद्धोऽष्टादश पापस्थानानि | समाचरति । मार्गविज्ञानविकलो हठेनाऽनिर्गमो भ्रमति तत्र किमाश्चर्यम् ? । अन्यच्च, यो यादृशं करोति स तादृशं फलमाप्नोति, परन्तु कुकर्मचिन्तनमात्रकृतकुकर्मोऽपि कृतकुकर्मतोऽपि अधिकं क्लेशमाप्नोतिः, ज्ञानेन तद् दृष्ट्वा शिरोधूननं कृतं, नान्यः कोऽपि हेतुरत्राऽस्ति' । इत्युक्त्वा विरते मुनौ राजाऽऽह-"भवता ज्ञानेन यद् दृष्टम् मनोरथमात्रेण कृताऽपराधः कृतापराधादपि अधिकतरं दुःखमाप्तः स को जीवः ?, कया रीत्या कुकर्मचिन्तनमात्रेण अतिकष्टमनुभवति ? । तत् करुणां कृत्वा निवेदयतु भवान्, येन मादृशानामज्ञानिनां किमप्युपकारो जायेत"। मुनिराह-"राजन् ! विषय-कषायवशगा जीवा जगति यद् न दृश्यते न श्रूयते नाऽनुभूयते, तच्चिन्तयित्वा दुनिन नरकनिगोदमहादुःखसमुद्रे पतन्ति । तत्र स्वरूपेण तु किमपि कृतं नास्ति, परम् अतिविषय-कषायगर्भितं निरर्थकं विकल्पं कृत्वा परम्परया अनन्तकालं यावद्वध-बन्धन-ताडन-ताप-च्छेद-भेदनादिबहुलं दुःखमाप्नुवन्ति, यद्वक्तुमपि न समर्था ज्ञानिनः' । राजाऽऽह-'स्वामिन् ! भवता यदुक्तं नरक-निगोदादि, तत्स्वरूपं कृपां कृत्वा अस्मिन् आसने स्थित्वा चोपदिश्यताम् । स्वामिनां मार्गे स्खलनं न युक्तम्, परं सज्जनानां स्खलने गुणो भवत्येव । अतो ममोपकारं कर्तुं समर्था यूयम्, तेन प्रार्थनां करोमि' । ततो मुनिनाऽपि लाभं ज्ञात्वा तत्र स्थित्वा आगमशैल्या नरक निगोदविपाकाः सहेतुका उपदेशद्वारेण दर्शिताः । राजा तत् श्रुत्वा चमत्कृतो भीतश्च मुनिं नत्वा प्राह-'यदि अनर्थ बहुलः संसारस्तदा मादृशानां प्रतिक्षणं कुकर्मकारिणां का गतिर्भविष्यति ?' | साधुराह-'राजन् ! अद्यापि किञ्चिद्गतंनास्ति, यदि जागरितो भृत्वा भवान् त्रिशुद्ध्या धर्ममाराधयिष्यति तदा स्तोकेनैव कालेन दृढप्रहारी-कालकुमारचिलातिपुत्र-चुलिन्यादीनाम् अतीव कुकर्मकारिणामिव
॥१०२॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org