________________
श्रीधन्यचरित्रम्
चतुर्थः पल्लवः
सख्युक्तवाक्यानि श्रुत्वा प्रेमपाशे बद्धश्चिन्तयति-'अहो ! या पुरुषनाममात्रेण अतिकुप्यति साऽस्मदुपरि स्वत एवं गाढानुरागरक्ता ईदृशं दुःखं वहति, सा कथं त्यक्तुं शक्यते? | अबलायाः प्रार्थनाबलात् कथं छुट्यते' ? । इति ध्यात्वा तां प्रत्युक्तम्-'हे सुभु ! यदि साऽस्मदुपरि सत्यां प्रीतिं वहति, तदा मयाऽपि अद्यप्रभृति सत्यमनसा प्रीतिनिर्वाह्या, यादृशी तस्या आतुरता तादृशी ममापि विज्ञेया । प्रत्यहं जघन्यत एकवारमपि अत्रागन्तव्यम्, दृष्टिमेलापकश्च कर्तव्यः, इत्युक्त्वा बीटकग्रहणपूर्वकं हस्ततालदानेन सत्यङ्कारः कृतः । सख्या कुमारस्य वचनं लात्वा सहर्ष स व्यतिकारः सुनन्दायै प्रोक्तः । सा हर्षभरे निमग्ना । तद्दिनप्रभृति प्रत्यहं कुमारस्तत्रागत्य दृष्टिमेलापकं करोति, सुनन्दाऽपि रागशाणोल्लिखितैः अतितीक्ष्णकटाक्षवि शिखैः कुमारस्य उत्पलदलकोमलं देहं व्यथयति। मोहात् सोऽपि तदेव च अतिसुखं मन्यमानो गाढानुरागरक्तोऽहर्निशं तामेव स्मरन् दिनानि निर्गमयति।
अत्रान्तरे स्तोकदिनमध्ये 'कौमुदीमहोत्सवदिन आगतः' इति ज्ञात्वा राज्ञा सकलेऽपि नगरे पटहो वादितः - 'भो लोकाः ! अमुकदिने कौमुदीमहोत्सवोऽस्ति, तस्मिन् दिने प्रतिगृहस्थितैः दुःखित-व्याधित-जराजर्जरितवर्जितैः सर्वैरपि जनैः सह नगराद् बहिः प्रतिवर्षमहोत्सवस्थानोद्याने आगन्तव्यम्। चेद्द्यो नागमिष्यति स राज्ञोऽपराधभाजनं भविष्यति' । इति पटहं श्रुत्वा सर्वेऽपि नागरा महोत्सवसामग्रीं कर्तुं प्रवृत्ताः । सुनन्दाऽपि स्वपरिजनमुखात् तं श्रुत्वा मनसि चिन्तयितुं लग्ना- 'अहो ! मया मनोरथसफलकरणदिवसो लब्धः । तस्मिन् दिने मम वल्लभसंयोगावसरोऽस्ति चेत् कर्तुं शक्यते' । सखीं प्रत्याह-"कयाऽपि रीत्या रूपसेनं गत्वा महोत्सव्यतिकरं चोक्त्वा मिलनाऽवसरो ज्ञापनीयः 'यतस्तस्यां राज्ञौ न कोऽपि मनुष्यो नगरे स्थास्यति, | अतो युष्माभिः किमपि शरीराऽऽर्तिप्रमुखं मिषं कृत्वा गृहे स्थातव्यम्, अहमपि किमपि च्छलं कृत्वा गृहे स्थास्यामि । पश्चाद्
10
For Personal & Private Use Only
Jan Education international
www.jainelibrary.org