SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 1 चरित्रम् पल्लवः ॥८८॥ समग्रावतारोऽपि नागच्छति' । ततः सुनन्दया पत्रिकायां स्वाशयगर्भ पद्याऽर्ध लिखित्वा दत्ता। प्रियसखी तां लात्वा किमपिच्छलं| कृत्वा 'उपरूपसेनं गत्वा प्रच्छन्नवृत्त्या तेन सा वाचिता । यथा - “निरर्थकं जन्म गतं नलिन्या, यया न दृष्टं तुहिनांशुबिम्बम्"। ___ इति वाचयित्वा स्वचातुर्यदर्शनार्थं प्रत्युत्तरं लिखित्वा दत्ता। तां लात्वा गृहमागत्य सुनन्दाया हस्ते अर्पिता, तयापि वाचिता। यथा "उत्पत्तिरिन्दोरपि निष्फलैव, दृष्टा विनिद्रा नलिनी न येन" इति साऽभिप्रायोत्तरं मत्वा गाढानुरागा जाता। सखीं प्रत्याह-'यादृशश्चिन्तितस्यादृग् एव निपुणः प्रतिभाति, अतः पुनस्त्वं तत्र गत्वा प्रीतिलताबीजकं बीटकं दत्त्वा, प्रत्यहं दर्शनं देयम्, न चेभोजनं करिष्यामि' इति विज्ञप्तिं च कृत्वाऽऽगन्तव्यं त्वया'। सख्या पुनः कुमारसमीपं गत्वा, भ्रूसंज्ञया एकान्तं नीत्वा, यथा न कोऽपि जानाति श्रृणोति च तथा कथनाऽर्हव्यतिकर उक्तः । सोऽपि तम् आश्चर्यकरमुदन्तं श्रुत्वा तां प्रत्याह-'हे सुभ्रु ! सा तु पुरुषद्वेषिणी इति लोके श्रूयते ! तत् कथं तस्या अस्मदुपरि गाढानुरागित्वं सम्भाव्यते' ? । साऽऽह-'श्रेष्ठिन् ! सा तु तव दशनमात्रेण प्रेमप. निमग्ना जलविरहे मीनीव त्वद्विरहदुःखेन दुःखिता त्वामेकं ध्यायन्ती जल्पन्ती च स्थिताऽस्ति, नाऽपरं किञ्चिद् जानाति। अतस्त्वया हस्तदत्तमिदं बीटकं गृह्णातु, अद्यप्रभृति प्रतिदिनम् एकवारमपि दर्शनदानप्रत्यायकं हस्ततालरूपं सत्यङ्कारं च ददातु' । कुमारोऽपि रूप-धन-यौवन-चातुर्यगर्वगर्वितः १. रूपसेनसमीपम्। २. गुप्तरीत्या। ३. चन्द्रबिम्बम् ! ४. पत्रिकाम्। ||॥८८॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy