________________
श्रीधन्य- चरित्रम्
चतुर्थः
पल्लवः
॥८७॥
अथाऽस्मिन्नवसरे स रूपसेनः सायंकालीनं भोजनं कृत्वा दिनघटिकाद्वयशेषे भव्यवस्त्रा-ऽऽभरणानि परिधाय कौतुकप्रियः सुनन्दाया आवासस्य सम्मुखे ताम्बूलिकस्यापणे आगतः । ताम्बूलिकेनापि अत्यादरपूर्वकम् उच्चासने स्थापितः, 'धनी सर्वत्र मानमाप्नोति' । ताम्बूलिको हि भव्यवीटाकानि ददाति रूपसेनोऽपि तानि भक्षयन् नगरस्याश्चर्यं पश्यन् स्थितः । अत्रान्तरे | गवाक्षस्थितायाः सुनन्दाया निर्जितकामरूपो रूपसेनो दृष्टिपथमागतः।अत्यद्भुतरूपंगताऽऽमयं तं कुमारं दृष्ट्वा संजातागाढानुरागा सती सखीं प्रत्याह - 'हे सखि! पश्य त्वं ताम्बूलिकहट्टस्थितं पुरुषवरम्। कीदृशं चास्य रूपम् !, कीदृशं वयः।, कीदृशे अक्षिणी!, कीदृशं वस्त्राऽऽभरणपरिधानचातुर्यम् !, कीदृशाश्च मुख-नेत्र-हस्तादीनां हावभावाः! अङ्गं घृत्वा घृत्वा अनङ्ग एवागतो न किम? एवं दृष्ट्वा अनेन सह पूर्वदृष्टदम्पतिवलासमनोरथः प्रवर्तते । ततो हसित्वा सख्याह - 'हे स्वामिनि ! पूर्वं पुरुष नाममात्रग्रहणे रूषा अरुणलोचने अभूताम्, अधुना त्वम् अपरिचितदर्शनमात्रेण कथं आतुरा भवसि ? । मम वाक्यम् अग्रमागतं यत् 'पूर्वापरं विचार्य वक्तव्यम्' । सुनन्दा प्राह-'हे सखि ! मम मूर्खत्वं मयि एवागतं, परन्तु अधुना त्वं दग्धोपरि क्षारतुल्यं किं वदसि ? || केनाप्युपायेन मम मनोरथपूरणे कौशल्यं तवास्तीति हार्दम्' । सख्याह-'हे स्वामिनि ! तव मनोरथं तु सांप्रतमेव पूरयामि ईदृक् कौशल्यं मय्यस्ति परन्तु पूर्व त्वया पुरुषाऽऽगमननिषेधच्छलेन मनोरथभुवनद्वारे झङ्खरकाणि दत्तानि। तथापिधीरा भव, पूर्वमनेन सह परिचयं कृत्वा मनोरथं पूर्णं करिष्यामि। प्रथमं दृष्टिमिलनं प्रीतिलताया बीजम्, ततोऽन्योन्यदर्शनजलेन सिच्यमाना फलवती भवति। अतस्त्वं स्वाशयगर्भ पद्याऽधु लिखित्वा मम हस्ते समर्पय। तद् लात्वा तत्र गत्वाऽस्य हस्ते दास्यामि, यदि चतुरो भविष्यति सद्य उत्तरं दास्यति, न चेद् मूर्खमिलनेन किं सुखम् ? । शास्त्रेऽपि कथितम्-'सज्जनस्य घटिकामिलनतुल्यो मूर्खस्य
॥८७||
Jan Education International
For Personal
Private Use Only
www.jainelibrary.org