SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् चतुर्थः पल्लवः ॥८५॥ अत्रान्तरे तस्मिन्नेव पुरे आढ्यो दीप्तो धन-धान्य-भृतगृहो वसुदत्ताऽभिधो व्यवहारी परिवसति । तस्य चत्वारः पुत्राः सन्ति। तेषामाद्यो धर्मदत्तः, द्वितीयो देवदत्तः, तृतीयो जयसेनः, चतुर्थो रूपसेन इति। चत्वारोऽपि निपुणा गतोपमानरूपाः सर्वेषु | व्यापारादिकार्येषु कुशलाः स्वाङ्गीकृतकार्यनिर्वाहकरणे कदक्षाः । एषां मध्ये चतुर्थो रूपसेनाभिधो | 'वात्सायनशास्त्रेष्वतिनिपुणश्चतुरपुरुषाणामग्रणीः पितुयेष्ठभ्रातृणां च अतीव वल्लभो निश्चिन्तः । तस्य न कोपि कष्टसाध्यं कार्यं ददाति । वस्त्राभरणभूषितोऽश्वगन्तृप्रमुखाधिरूढः पादचारी वा यथेच्छं नगरे चतुष्पथे राजपथे वनोपवनादिषु च गीतनृत्या-ऽऽतोद्य-पुष्पादीनामाश्चर्याणि पश्यन् सुखेन कालं निर्वहति । नित्यं कौतुकप्रियस्तिष्ठति । अथ कियत्यपि काले गते सा सुनन्दा प्राप्तयौवना संजाता । एकदा सखीभिः परिवृता स्वावासस्य उपरि वलभ्यां क्रीडति, समस्तकामोद्दीपनकारणम् आम्रप्रस्फूलन-परभृतारावप्रमुखसैन्ययुतो वसन्तसमयोऽऽप्यस्ति । अथाऽस्मिन्नवसरे कस्यापि महेभ्यस्याऽऽवासे उपरितनभूम्यां सुगन्धिजलाऽऽच्छोटनपूर्वकं स्थाने स्थाने पुष्पप्रचुरा रचना कृताऽस्ति, घनसार-मृगमदा-ऽम्बरमिश्रितकृष्णागुरुः घटिकायां निर्दहति, तेन समस्तमपि भुवनं सुगन्धेनाऽऽपूरितमस्ति । चतुर्दिक्षु बहुतरसुगन्धिपुष्पाणां जालिका 'जवनिका च रचिताऽस्ति । उपरितनप्रदेशे घनझुम्बनकविविधभक्तिमयजालिकायुक्तश्चन्द्रोदयोऽतीव शोभां ददाति । तदधो विचित्रसुकुमालतूलिकोत्सीर्षका-ऽऽच्छादनपटादिकृत रचनपूर्वक सुवर्णमयपल्यले सुकुमारोज्ज्वलौ, स्नान-मज्जनाऽऽत्तरचन्दनविलेपनौ परिहिताभूषणौ, तीव्रपक्ष्मलकाश्मीरजाऽऽच्छोटनरचनारचितवस्त्रादिना कृतश्रृङ्गारौ, परस्परं १. कामशास्त्रेषु । २. परभृतः कोकिलः। ३. भाषायाम् 'पडदो'। ॥८५॥ Jan Education! For Personal & Private Use Only www.jainelibrary.org.
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy