________________
श्रीधन्य
चतुर्थः
चरित्रम
****
पल्लवः
॥८४॥
*****
यौवनवयसि स्त्रीणां पुरुष एवं जीवितव्यम् । यौवने पतिविहीना युवतिधूलीतोऽपि निस्सारा ज्ञेया । इह जगति द्वे सुखे वर्तेते। | तत्रैकं-पौलिकं, द्वितीयमात्मीयम्। तत्र पौद्गलिकं द्विविधम्, कारणसुखं स्पर्शसुखं च । तत्र कारणं रूप्यकादि, स्पर्शश्च खानपानादिः । पौद्गलिकॉद्वयो रहस्यं स्त्रीणां पुरुष एव, पुरुषाणां च स्त्री एव । यतः सत्यपि धन-धान्यादिसमग्रेन्द्रियसुखभृते गृहे | एकेनैव भर्तृवियोगेन विधुरा स्त्री अग्नौ प्रविशति, अतो ज्ञायते संसारेऽग्निऽपि विरहो दुःसहः । द्वितीयसुखस्य हार्द समतैव, तां विना तपो-जप-दानादिकं वृथैव। यतो व्यवहारराशिगतानां जीवानां संसारे परिभ्रमणां कुर्वतामनन्ताः पुद्गलपरावर्ता ब्यतीताः । तत्रैकेन केनचिद् जीवेन अनेकेषु भवेषु किं किं धर्मकृत्यं न कृतम् ?, सर्वाण्यपि धर्मकृत्यानि कृतानि, परन्तु एकां तां समतां विनैव । तां विना नाऽनन्तगुणजातानि । अतो हे स्वामिनि ! सहसा किमपि न वक्तव्यम्, यस्य निर्वाहशक्तिस्तद् वक्त्व्यम् । यदा यौवनोदयो भविष्यति तदा ज्ञास्यसि । आगमेऽपि समस्तव्रतानां मध्य ब्रह्मैव दुष्करं ब्रह्मचर्यरक्षणे नवसङ्ख्या वृत्तिरुक्ता । अतो धीरा भव, अज्ञत्वेन किमपि न वक्त्व्यम्' । तदा सुनन्दयोक्तम्-"त्वया यदुक्तं तद् मयाऽवधारितं, परन्तु अधुना तु नास्त्येव, अतस्त्वं मातुः समीपं गत्वा ब्रूहि-'सुनन्दाया विवाहकृत्यमधुना न कर्तव्यम्, यदा ममेच्छा भविष्यति तदा ज्ञापयिष्ये । ममावासे | कस्मिन्नपि कार्योद्देशे पुरुषो न प्रेष्यः; सखीभिः दासीभिर्वा ज्ञाप्यम्"। सख्याऽपि गत्वा जनन्यग्रे तस्या आशयो ज्ञापितः । मात्रा पृष्टम्-'किमर्थमिति वदति' ? । सख्योक्तम्-'केनापि कारणेन उदासीना जाताऽस्ति तेन 'न' इति वदति । परन्तु यौवनोदये स्वयमेव प्रार्थयिष्यति। चिन्ता न विधेया' ।मात्रोक्तम्-'यथा रुचिः, एवमस्तु । सख्यापि पुनरागत्य सुनन्दायै सर्वमुक्तम्। सुनन्दापि तच्छुत्वा शान्तचित्ता स्वावासे सखीपरिवृता सुखेन कालनिर्गमनं करोति।
||८४॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org