________________
श्रीधन्यचरित्रम्
चतुर्थः पल्लवः
॥८२॥
साऽपि यत्किञ्चित्, यतः प्रियां विना गृहं न भवति । विना प्रियां पुरुषः पथिकतुल्यो जनैरुच्यते । प्रियैव गृहमण्डन् । एकोदर पूरणकरणमात्रोपकारेण स्त्री यावज्जीवं पुरुषाज्ञया प्रवर्तते । प्रतिदिनं प्रातरुत्थाय जलाहरणादि करोति । गृहपूजन-प्रमार्जनकचवरशोधन-गृहगतगवादिपशुकृतगोमयव्यवस्थानादिकर्मकरक्रियां करोति । ततो धान्यशोधन-खण्डन-पेषणदालिचुणनादीन् करोति। ततो रन्धनविधिना रसवतीं निष्पादयति, ततः पत्यादीनां भोजनं कारयति, ततः पश्चात् स्वयं भोजनं करोति । ततो रसवतीभाजनशुद्धिं करोति । गृहागतमनुष्याणामादरसत्कारं करोति. श्वश्रूननान्दणां यथोचितविनयप्रतिप्रत्तिं च करोति। पत्युर्येष्ठभ्रात्रादीनां लज्जां करोति। मन्दगति-मन्दभाषण-मन्दहसना दिविधिना भर्तुर्गृहशोभा वर्द्धयति। गृहागतमुनीनां भक्त्या प्रतिलाभनेन पुण्यवृद्धिं करोति । दीनहीनप्राणिनाम् शेषभिक्षुकाणां च अनुकम्पादानेन भर्तुर्यशः पुण्यं च पोषयति । पुनर्द्वितीयवेलायां रसवतीकरणादिना दिनसमाप्तिं यावत् कार्यग्रथिता भवति। ततो भर्तुः प्रसत्त्यर्थं स्नानमज्जन-शृङ्गारकारणम्। सन्ध्यायां दीपकरणेन गृहमुज्ज्वलयति। ततो शय्या-समारण-रचनादीन् करोति। यावद्भर्तुरागमनं न भवति तावद् न स्वपिति, भोगं च ददाति, कुलवृद्धिकारणं सन्ततिं च ददाति । प्रगे भर्तुर्जागरणात् पूर्व जागर्ति, उत्थाय च पुनर्गृहकार्ये प्रवर्तते । अति - दुखावस्थायां माता-पितृ-भ्रातृ-भगिनीप्रमुखाः स्वजना भक्त्वा दूरतो यान्ति, न भार्या । कैश्चिद् वीरपुरुषैः प्रमदा त्यक्ता श्रूयते, परन्तु कुलवत्या प्रमदया कुत्रापि भर्ता त्यक्तो न श्रूयते। तथापि हे प्रियसखि ! यावज्जीवं गृहस्थाऽऽश्रमनिर्वहणेऽपि कठोरहृदयाः पुरुषा ईदृशीनामुत्पलकोमलानां स्त्रीणां निर्दयताडनं कुर्वन्ति ! किञ्च, यानि इह जगति निन्दनीय-गर्हणीय-क्रूरकर्माणि तेषां कर्तारः पुरुषा एव दृश्यन्ते । तथाहि-समस्तव्यसनबीजरूपं द्यूतं पुरुषैरेव क्रियते । आखेटकेन वनस्थपशूनां घातकाः पुरुषा
| ॥८२॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org