________________
श्रीधन्यचरित्रम्
चतुर्थः
पल्लव:
॥८
॥
॥सुनन्दा-रूपसेनयोः कथा॥ पृथ्वीभूषणनाम्नि पुरे कनकध्वजराजा राज्यं करोति स्म । तस्य यशोमत्यभिधा राज्ञी । तयोर्की पुत्रौ स्तः गुणचन्द्रकीर्तिचन्द्रनामानौ। एका पुनः पुत्री सुनन्दाऽभिधा रूप-यौवन-गुणभृता चतुःषष्टिकलासु कुशला। सा बालभावेऽनुदयकामावस्था सखीभिः परिवृत्ता सप्तभूम्यावासोपरि स्थिता नागरस्वरूपं पश्यति । स्म । अत्युन्नतप्रासादोपरि स्थिताया दृष्टिश्चाऽतिदूरतरं याति । एतस्मिन्नवसरे एकस्य महेभ्यस्य गृहे एका वरतरुणी रूप सौन्दर्यगुणेन विजिताऽमरसुन्दरी, यस्या विनयादिगुणेन माधुर्यवचनेन दर्शनमात्रेण च क्रोधिनामपि क्रोध उपशाम्यति । ईदृश्याः कामिन्या धवः किमपि सत्याऽसत्याऽभ्याख्यानं दत्त्वा कम्बया निर्दयं हन्ति। सा पुनः पुनर्भर्तुः पादयोः शिरोधृत्वा चाटुवचनेन विज्ञप्तिं करोति-"स्वामिन् ! प्राणाधार! मया कोऽप्यपराधो न कृतः । केनापि दुष्टचेतसाऽलीकश्रावणेन किं मां निरर्थकं मारयति भवान् ? । सुकुलप्रसूताऽहम् त्वदाज्ञाविरुद्धमद्य यावद् न कदापि कृतम्, अग्रेऽपि न करिष्यामि । यदाऽस्य शुद्धिकरणेन यथार्थनिर्णयो भविष्यति तदा तवैव पश्चात्तापो भविष्यति! अतो हे प्राणनाथ! अस्याऽलीकदूषणस्य शुद्धिं करु।यदा मयि एतदूषणं सत्यं भवति तदा भवतो यद्ोचते तत् करोतु। निरर्थकमारणे किं हस्ते आयाति' ? । इत्येवं सविनयं पुनः पुनः प्रमाणपूर्वकं प्रार्थनां विज्ञप्तिं च करोति, तथापि स पुरुषस्ताडनान्न विरमति। एतत् सर्व सुनन्दा दृष्ट्वा सखीं प्रत्याह-"हले ! पश्य त्वमस्य पुरुषस्य निर्दयत्वम् । ईदृशीं रूप-यौवनविनयादिगुणवतीं प्रति किमप्यलीकमुद्भाव्य श्वपचवत् ताडनं करोति। किञ्चिदपि दयोदयो न जायते । एतां दृष्ट्वा मम हृदयं करुणया भिद्यते, परन्तु अस्य स्वकीयप्रमाणप्रियोपरि दयालेशो नोदेति। तस्मात् स्त्रीणां पुरुषाधीनत्वे महदुःखम्। यद्यपि 'पुरुषो गृहनायकः' इति लोकोक्तिः,
॥८
Jan Education International
For Personal Private Use Only
www.jainelibrary.org