SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् चतुर्थः | पल्लवः ॥ ८॥ सनत्कुमारवच । एवं गन्धविषयानुकूलप्राप्त्या दुष्कर्मपोषणं कुर्वन्ति, मलमलीनशरीराणां मुनीनां दुगञ्छनमात्रेण च दुर्गतिं परिभ्रमन्ति, दुर्गन्धा राजपत्नीवत्, सुगन्धासक्तभ्रमरवद् वा । स्पर्शनेन्द्रियसक्तानां तु किं कथ्यते? । यतः पञ्चानामपि विषयाणां प्रियमेलकतीर्थवद् एकत्र मिलनेनाऽतिकठोरपाप प्रवृत्तिं कुर्वन्ति । यतः परदारासक्ता जीवा अष्टादश पापस्थानानि अतितीव्रसंक्लेशेन समाचरन्ति, तेन इहलोके राज्य-धन-यशो-भोगा-ऽऽयुःप्रभृतीनि हारयन्ति, परत्र च अनन्तकालं यावद् नरक-निगोदेषु परिभ्रमणं कुर्वन्त्येव, ब्रह्मदत्तचक्रिवत् । अत्रैकं महदाश्चर्यं, ये जीवा यान् विषयान् अत्यादरेण सेवन्ते ते चैवाऽन्यजन्मनि अन्याऽन्यशरीरेन्द्रियाणां जघन्यतो दशगुणं, शतगुणं वा, सहस्त्रगुणं वा, लक्षगुणं वा, कोटीगुणं वा ततोऽप्यधिकतरं वा उत्कृष्टा कुट्ट्यासेवने बीजपरम्परयाऽनन्तगुणं यावत् प्रतिकूलमसहनीयमकथनीयं केवलिगम्यम् ईदृशं दुःखं ददति । यत् केवली ज्ञातुं सर्मथः, न तु सर्व वक्तुम् । ईदृशान् खलु खलान् विषयान् कियन्तो जानन्तोऽपि पुनः पुनस्तदर्थं धावन्ति, क्लेशं च प्राप्नुवन्ति। तेषां प्राप्तौ महान् हर्षः, तदप्राप्तौ चिन्तामणितोऽप्यधिकं नरभवं व्यर्थं गणयन्ति। तथा विषयास्तान् दुःखमेव ददति । यतः "निर्दयः कामचाण्डालः पण्डितानपि पीडयेत् । अज्ञपीडने किं चित्रं विषयान सेवते सतु" ||२|| "विषयसेवको भवसङ्कटे पतति तत्तु घटत्येव, यादृक् करोति तादृक् प्राप्नोति। परन्तु विषयेच्छामात्रेणापि असेवतिविषयोऽपि दुर्गतिपातमाप्नोति । अत्रार्थे कथानकमेकं श्रृणु सावधानमनसा" | धन्येनोक्तम्-'महान् प्रसादः, कथयतु भवान्' । मुनिराह - Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy