SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् चतुर्थः पल्लवः ॥७९॥ रूपैश्चतुर्भिदुखैर्दुःखितास्तिष्ठन्ति । तत्र मोहनृपतेः कुराज्यनिर्वाहकमिथ्यादर्शनाऽभिधो मन्त्री सर्वजीवान् निजाज्ञाप्रवर्तनार्थम् | अविरति-कषाय-योगविपर्यासमदिरायाः पानगोष्ठिं कारयित्वा उन्मत्तान् करोति । ते चोन्मत्ताः सन्तो न देवं न गुरुं न धर्म न हितं न कृत्यं नाऽकृत्यं न स्वं न परं न इहलोकं न च परलोकं किमपि वेदितुमिच्छन्ति, केवलं महानिद्रा-भय-मैथुनादिसंज्ञासु गाढमासक्ताः संसारं वर्द्धयन्ति। तत्र ये विषयास्ते कषायाणां साहय्येन किं किं कुकर्म-कुचेष्टितं च न कारयन्ति ? । यद् आजन्मतः सर्वे संसारिणो जीवाः केनाप्यशिक्षिता अपि स्वस्वशक्तिग्राह्यविषयेष्वासक्तास्तिष्ठन्ति । आगमे हि विषादपि अधिकतरा विषया उक्ताः । यतः - "विषयाणां विषाणां च दृश्यते महदन्तरम् । उपमुक्तं विषं हन्ति, विषयाः स्मरणादपि" विषादेकाक्षरमात्रेणाऽधिका विषयाः कीदृशं दुश्चेष्टितं कुर्वन्ति ? । ये च रसनेन्द्रियासक्तास्ते उत्कृष्ट तो नवाऽङ्गुलमात्रविषयपूरणार्थमेकेन्द्रियादिपञ्चेन्द्रियजीवं यावद् निर्दयपरिणत्याकुट्टिहिंसां कुर्वन्ति, कृत्वा चाऽन्तर्मुहूर्तमात्रेण मृत्वा सप्तमं नरकं यावद् गच्छन्ति; तन्दूलमत्स्यवत्, राजगृहे उद्यानिकायां निजाऽन्तरायकर्मोदयाऽप्राप्तभिक्षुद्रम्मकवद् वा अकामं दुर्गतिगता घनकर्मविपाकमनुभवन्तः परिभ्रमन्ति। चक्षुरिन्द्रियासक्ता अनुकूल-प्रतिकूलवर्णादि पर्यायप्राप्ता अप्राप्त्या च रागद्वेषयोः प्रबलपरिणत्या पापकर्मणाम् उत्कृष्टस्थिति-रसबन्धान रचयन्तोऽनन्तभवान् परिभ्रमन्ति । एवं शब्दविषयासक्ता जीवाः श्रवणसुख-दुःखमात्रेण दुर्गतिकूपे पतिताः क्लेशमनुभवन्ति, सङ्गरे बन्दिजनोक्तकुल-जातिशंसनश्रवणात् शूरसुभटवत्, Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy