________________
श्रीधन्यचरित्रम्
* चतुर्थः
पल्लव:
॥ ७८॥
प्रस्थितः । विविधानि ग्राम-नगर-वनो-पवनानि निरीक्षमाण एकाक्येव सिंह इव निर्भयं याति । अथाऽस्मिन्नवसरे मन्दाकिन्युपकण्ठेऽशोकतरोरधः शान्तं दान्तं समग्रगुणराशीनां खानिद्वयमिव धर्मस्य मूर्तिमद्विरूपमिवधर्मस्य मुनियुगलं ददर्श। धन्यस्तन्मुनियुगलं दृष्ट्वा चन्द्रोदद्योते चकोर इव, मेघदर्शने मयूर इव, स्वस्वामिदर्शने सतीव, हर्षभरनिभृतहृदयश्चिन्तयति'अहो ! मम भाग्यानि जाग्रति, यदस्मिन् वनगहने विजनप्रदेशेऽचिन्तितचिन्तारत्नलाभाऽधिकं मुनिदर्शनं जातम् । सफलोऽद्य दिवसोदयः, अद्य कान्यपिशकुनानि संजातनि दृश्यन्ते यद्ग्रीष्मधर्मपीडातृषितस्य मानससर इव मुनिमिलनम् ! इह-परभवद्रव्यभावतृविध्यापको मुनिर्मम शुभयोगोऽतिदुष्करः स संजातः' । इत्येवं ध्यायन हर्षेण पुलकितहृदयः पञ्चाऽभिगमादिविधिपूर्वकं प्रदक्षिणात्रयं दत्त्वा पञ्चाङ्गणिपातेन वन्दित्वा
"गोयम सोहम्म जंबु पभवो सिज्जंभवाइया। सव्वे ते जुगप्पहाणा तइदिवे ते सविदिवा ||२|| अहो! ते निज्जियकोहो, अहो! माणपराजओ। अहो ते अज्जवं साहू! अहो ते मुत्तिमत्तपो ||२||
अज्ज कत्यथो जम्मो" इत्यादिपद्येन स्तुत्वा संयमशरीरयोश्च सुखप्रश्नं कृत्वा यथाऽवग्रहस्थानमाश्रित्य मुनेः संमुखं स्थितः । मुनिरपि धर्मश्रवणपिपासितं ज्ञात्वा श्री जिनागमतत्त्वं दर्शयितु प्रवृत्तः-"भो भव्य ! इह-अस्मिन्नपारसंसारे मिथ्यात्वा-ऽविरति-कषाययोगरूपैश्चतुर्भिः कारणैरर्दिता जीवा विविधजाति-कुलस्थान-योनिषु परिभ्रमन्ति । जन्म-जरा-रोग-मरण
१. गौतमः सौधर्मः जम्बूः प्रभवः शय्यम्भवादिकाः । सर्वे ते युगप्रधानाः त्वयिदृष्टे ते सर्वे दृष्टाः ॥१॥ अहो ते निर्जितक्रोधः, अहो ! मानपराजयो अहो ते आर्जवं साधो अहो ते मूर्तिमत्तपः । २. अद्य कृतार्थं जन्म।
॥ ७८॥
Jan Education International
For Personal Private Use Only
www.jainelibrary.org