________________
श्रीधन्यचरित्रम् |
चतुर्थः
पल्लवः
॥ ७७॥
'हे तात ! वयं सर्वे पृथक्पृथग्गृहे स्थास्यामः । अतः परं धन्येन सह न वत्स्यामः । तेनास्माकं श्रीणां भागं प्रत्येकं समर्पय' । ततो धनसारस्तेषां वचनं श्रुत्वा ईषद् विहस्य तान् प्रत्युत्तरं प्राह-'वत्साः ! साम्प्रतं भवद्भिर्धनं याच्यते तत् किं प्राग् अस्य धनस्य अर्पिमस्ति यद्ग्रहणाय समुत्सुका जाताः ? । अपिच', यूयं तत्सर्वं किं न स्मरथ यत् स्वपुराद् गात्रमात्रेण अतिदीनावस्था प्राप्ता अत्राऽऽगमिष्यथ, ततो धन्येन सज्जनस्वभावतया विनयादिगुणगौरवतयाऽकृत्रिमहेतया च युष्मत्कृतदोषान् विस्मृत्य कामं धन-वस्त्रादिराशिभिः सत्करिष्यध्वे, तत् किं न स्मरथ' ? । इति पितुर्मखात् श्रुत्वा द्वेषितसौजन्या वावदूका घूका इव वाण्या घोरास्ते त्रयोऽपि धन्याग्रजा इत्यवदन्-'भोस्तात ! त्वं तु दृष्टिरागेणान्धः कमप्यस्य दोषं न पश्यसि, इमं गुणनिधिमेव मन्यसे !। अयं यत् करोति तत् सर्वं त्वच्चित्तेऽत्यन्तश्रेयस्तया प्रतिभाति । परमस्य चरितानि तु वयमेव जानीमः, न कोऽपि वेत्ति । यतः स्नेहहीनोऽसौ अस्मद्गेहतस्तस्कर इव बहुतराणि रत्नान्यादाय नष्टः । अत्र चागत्य तेन धनेन राजवर्गीयजनानां किमपि लञ्चादिकं दत्त्वा ईदृशीं महत्त्वाऽवस्थां गृहीत्वा स्थितोऽस्ति । लक्ष्म्या किं न भवति ?, 'सर्वे गुणाः काञ्चनमाश्रयन्ति' । यतः श्रिया कृत्वाऽतिक्षारस्याप्यपेयस्यापि अम्बुधे 'रत्नाकर' इति प्रसिद्धिः संजाता । तस्माद् हे तात ! हृदयाद् वक्रतां विमुच्य श्रीणां | भागमस्माकं समर्पय'।
इति पितृ-पुत्राणां परस्परं स्वमूलं कलहोइँदं मत्वा सत्त्वाधिकः सुधीर्धन्यो लक्ष्म्या भृतं गृहादिकं त्यक्त्वा पुनरपि निर्ययौ। ततः प्रयाणसमये शोभनैः शकुनैर्दिव्यचाष-ध्वाङ्क्षस्वरादिभिः । सुशब्द-चेष्टादिभिश्च प्रेरितस्तान्यभिवन्द्य मगधदेशोन्मुखं |
१. परन्तु युष्माकं तत्सर्वं विस्मृतं यत्-प्र०।२. वा काङ्खायाम्। सिद्ध०।५।२।१०। इत्यनेन स्मृत्यर्थधातौ भूतार्थे भविष्यप्रत्योगः। ३. विस्मार्य-प्र०।
||॥७
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org