________________
श्रीधन्यचरित्रम्
॥७६॥
सुखानन्दमग्नतया स्थेयम् । अहं तवादेशकारी किङ्करोऽस्मि, काचिदप्यधृतिर्न विधेया' । एवं मातरं ज्येष्ठभ्रातृन् भ्रातृजायादींश्च मधुरवचनैः संतर्प्य वस्त्र - धनाऽऽभरणादिभिः सत्करोति स्म । सज्जनानामियं रीतिर्युक्तिमत्येव आश्रितोदयः सोम इव कलावतां मुख्यो धन्यो बान्धवेभ्यः श्रियं ददौ-यथा कलावतां मुख्यः सोमः श्रितोदयः सन् कुमुदेभ्यः श्रियं ददाति, एवं च अन्तःकरणप्रीतियुक् धन्यः समस्तमपि कुटुम्बं विविधसुखप्रकारैः पोषयति स्म । तथाप्यस्य प्रभाकरद्युतेर्धन्यस्य धाम तैस्तामसप्रकृतिभिरग्रजैर्न सेहे, तद्युक्तम्, यतस्तामसा दिवा भीता इव अन्यस्य च तेजो न सहन्ते ।
अथान्यदा धन्यो राजसभायां गत्वा राजानं नत्वा राज्यकार्यचिन्तां कृत्वा पुनरपि राजादेश प्राप्य उचित वेलायां सुखासनारूढो विविधहय-गज-रथ-भटादिचमूपरिवृतो विविधदेशागतबन्दिभिर्विचित्ररचनामयरूपकगीतकैः संस्तुतोऽनेकवादित्रवादनपुरस्सरं स्वगृहमायाति । तदा चतुष्पथस्था जना धन्यगुणवर्णनं कुर्वन्ति दृश्यतां दृश्यतां मनुष्यभवे देवत्वम्, यस्माद् औदार्य-धैर्यगाम्भीर्य शौर्यरूपा गुणा अस्मिन् गतोपमाना वर्तन्ते । चतुर्णां भ्रातृणां मध्येऽनुजोऽपि परोपकारकरण- दीनहीनोद्धरणस्वकुटुम्बादिपरिपोषण- निम्नोन्नततदुक्तिसहनादिविविधगुणैः कृत्वा वृद्ध इव लक्ष्यते । तदाऽपरो वक्ति- 'गुणवतां वयसि किं प्रयोजनम् ? । एतेऽस्य पुण्यनिधेधन्यस्याग्रजाः किम्पाकफलसदृशाकारा अस्य प्रसादेन यथेप्सितं सुखमनुभवन्ति । यदा पूर्वमागता अभूवन् सदा द्रम्मकतोऽपि दुर्दशां प्राप्ताः सर्वैरपि जनैर्दृष्टा आसन् । अधुना तु गर्वपूरिताः कृतवक्र कटाक्षाः प्रतिनमस्काराद्युचितप्रवृत्तमपि न कुर्वन्ति, ततः किं जातम् ? एतद्वक्रत्वं तु गुणनिधेर्धन्यस्य प्रभावेण निर्वहति, न त्वेषां प्रभावः' । इति ते त्रयोऽप्यग्रजा धन्यगुणवर्णनं स्थाने स्थाने श्रुत्वा यवासकवृक्ष इव दह्यमाना लोभाभिभूता जनकाऽन्तिकमागत्येति प्राहुः -
Jain Education International
For Personal & Private Use Only
चतुर्थः
पल्लवः
॥७६॥
www.jainelibrary.org