________________
श्रीधन्यचरित्रम्
चतुर्थः
पल्लवः
॥७५॥
किन्तु कर्मोदयात्तः । यतः कर्मोदयस्य तु द्वे रूपे-'पुण्योदयः पापोदयश्च । यदा तु पुण्योदयो वर्तते तदाऽनीप्सितेनापि बलात्कारेण। धन-सम्पदादिना गृहं पूरयति । यदा तु 'पापोदयो वर्त्तते तदा सुसञ्चितं सुरक्षितमपि गजभुक्तकपित्थवद् गृहं | निस्सारं करोति । यतः -
"कृतकर्मक्षयो नास्ति कल्पकोटिशतैरपि। अवश्यमेव भोक्तव्यं कतं कर्म शुभाशुभम" ||२||
"इत्यादिहेतोः पुरा पुण्योदयेन सर्वमनुकूलमभवत् । अधुना तु पापोदयेन सर्वं नष्टम् । किं बहुजल्पितेन ? । अपरं च. गृहेपुत्र-कलात्रादिबहुजनानां मध्ये एकः कोऽपि भाग्यशाली भवति. तस्य भाग्येन सर्वमपि कुटुम्बं सुख-मनुभवति; तद्गमने तु स एव स्वजनवर्गो दुःखमनुभवति' इति शास्त्रोक्तेः प्रत्यक्षतया दृष्ट्वा चाऽनुभूतम्, यतो हे वत्स ! कलावति भाग्यनिधौ त्वयि गते सति केनापि पिशुनेन प्रेरितो राजापि प्रतिकूलोऽभवत्, तेन कारागारे क्षिप्त्वा बहुतरं दण्डं कृत्वा धनं गृहीतम्, कियच्चौरैर्मुषितम्, किञ्चिद् वह्निना भस्मसात् कृतम्, कियद् मूढतया व्यापारक्रियया नष्टम्, कियञ्च भूमिगतनिधानादि दुष्टसुरैर्हतं मृत्तिकारूपं संजातम्, तावन्नष्टं यावदेकदिननिर्वाहमात्रमन्नमपि न स्थितम् । ततः कृष्णपक्षेन्दुवद् निष्कलानां सर्वेषां हे जगन्मित्र ! महता कष्टेन भवद्गवेषणां कुर्वतां केनापि पुराकृतभाग्योदयेन त्वदर्शनं संजातम् । “त्वदर्शनमात्रेण सर्वतोऽभ्युदयेन च मम दुःखं नष्टं, चित्तं च आनन्दमेदुरमभवत्' । इति पित्रोक्तं श्रुत्वा धन्यः सविनयं प्रणम्याह-'हे तात ! मम सेवकस्यापि प्रचुरपुण्योदयो जातो येन तातपादानां दर्शनं संजातम् । इयं च राज्यमानादिसम्पत्प्राप्तिरद्यैव सफला जाता । अतः परं दुःखवातां विस्मार्य १. पुण्यरूपेण प्र०।२. पापोदयरूपेण प्र०।३. निर्वतुत्वेन (?) निष्कलमिति ज्ञात्वा सर्वमपि कुटुम्बं वादाय । हे-प्र०। ४. संजातदर्शन-प्र०।
॥७५॥
Jan Education International
For Personal
Private Use Only
www.jainelibrary.org