SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् ॥ ७४ ॥ तथा तथा ग्रन्थी उपस्तम्भं याति यावद् ग्रन्थी स्तम्भं स्पृशति । अनया रीत्या स्तम्भे ग्रन्थीं दत्त्वा राजादेश सफलीचकार । एतत्सर्वं राजा नगरलोकाश्च दृष्ट्वा तद्गुणरज्जुबद्धस्वान्ताः प्रशंसन्ति स्म -'अहो अस्य बुद्धिपटुत्वम् । अहो अस्य प्रतिभाप्रागल्भ्यम् ! | अष्टमश्रुतं च कृतपूर्वमिव कृतम्' । इति तद्गुणरञ्जितो राजा 'आलोकमुदितो लोको बालभास्वतेऽर्घमिव धन्याय मन्त्रिपदं दत्तवान् । अथासौ धन्यमन्त्रीन्दुर्भूपतेः प्रसादं सकलाधिकशुचिपक्षं समासाद्य समस्तभूवलयमतिशुद्धनीतिज्योत्स्नाभिः सोल्लासितं चक्रे । एवं प्रतिदिनमधिकाधिककीर्त्या लक्ष्म्या च प्रवर्द्धमानो धन्यो मन्त्रिपदं कुर्वाणाऽन्यदा स्वसौधवातायनस्थितश्चतुष्पथैश्चर्य विलोकयति स्म, तावताऽमावस्यायां विधुमिव दुर्दर्शं विगलद्वसु दारिद्योपद्रुतम् अतिदीनदशाप्राप्तं क्षुत्तृषाबाधितवपुं (पुषं ) सकुटुम्बं स्वपितरमितस्ततस्तत्पुरे भ्रमन्तं ददर्श । दृष्ट्वा सविस्मयं चोपलक्ष्येति दध्यौ- 'विचित्रा कर्मणांगतिः' यतोऽनेनकोटिधनविभवयुतं गृहं मुक्तवाऽहमत्रागतः, तत्सर्वमतिस्तोकदिनमध्ये क्वापि गतम्, एतादृशी च दशां प्राप्तं मम कुटुम्बं प्रत्यक्षमेव दृश्यते ! । श्री जिनागमोक्तं नान्यथा भवति 'कडाण कम्माण न मोक्खमत्थि' इत्यादि । तथा “अघटितघटितानि घटयति, सुघटितघटितानि जर्जरीकुरुते । विधिरेव तानि घटयति, यानि पुमान् नैव चिन्तयति ॥ १ ॥ इति ध्यात्वा आदरपूर्वकं स्वकुटुम्बं गृहे नीत्वा पितरं भ्रातॄंश्च नमस्कृतिं कृत्वा स्नान- वसना - ऽशनादिभिः सत्कृत्य यथावसरं प्राप्येति पृच्छति स्म - तात ! बहुधन- यशः क्षेमभृतां भवतां कथमीदृश्यवस्था संजाता तद्व्यतिकरः कथ्यताम्। तदा धनसारोऽपि धन्योक्तिं श्रुत्वाऽवोचत्-हे वत्स ! श्री जिनागमतत्त्वकुशलो भूत्वा किमु विभवधननाशप्रश्नं पृच्छसि ? लक्ष्म्यादिविभवो न ममायत्तः, १. धन्याय मन्त्रिपद् ददौ। आलोकमुदितो लोकश्च बालभास्वते प्रणामार्धं दत्तवान् प्र. Jain Education International For Personal & Private Use Only चतुर्थः पल्लवः ॥ ७४ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy