________________
चतुर्थः पल्लवः
॥७२॥
त्यक्तं तद् महदाश्चर्यम् । तेन पुरुषेण पृथ्वी 'रत्नगर्भा' इति सत्योक्तिः । तथा त्वमपि भाग्यनिधिर्येनैतादृशपुरुषस्य दर्शनं कृतं, श्रीधन्य
II भोजनं च कारापितम्' तेन दत्तः प्रसादस्त्वया लब्धोऽतस्त्वमपि धन्योऽसि । अथ यदि तेन पुरुषसिंहेन निधानं तुभ्यं दत्तं तदा चरित्रम् मयापि सुतरां तुभ्यं दत्तम् !, महापुरुषस्यादेशं कः स्फेटयति?। परं तस्य महापुरुषस्याभिधानं विख्यातं भवेत् तथा कर्तव्यम्'।
इति राजादेशं प्राप्य हालिकेन धन्यस्य ख्यातिविस्तारणाय तस्यामेव क्षेत्रभूमौ धन्यनाम्ना ग्रामो निवेशितः । राज्ञे च निवेदितम्। राज्ञापि तद्ग्रामाधिपत्वं हालिकस्यैव समर्पितम्। हालिकोऽपि राज्ञा प्रदत्तमधिपत्वं प्राप्य सुखमनुवन् धन्यस्योपकारं न विस्मरति। ___अथ धन्योऽपि अग्रतो गच्छन् विविधानि नगर-वनानि-पश्यन् दिनात्यये कस्यापि ग्रामस्योपकण्ठं प्राप्रः, यथा तापाऽत्यये हंसो मानसं प्राप्नोति । तत्र च सन्ध्यायां सरित्तीरेऽनाकुलमना वालुकां समादाय स्वहस्तेन निम्नोन्नतां स्फोटयित्वा समतया विरच्य, निःशङ्कवृत्त्या रतितुल्यपर्यङ्क इव स्थित्वा स्वकीयहृदयकमले श्रीसिद्धचक्रकमलं संस्थाप्य यथानुवृत्त्याऽर्हदादिपदं मनसि ध्यायन, प्रहरं यावञ्जपक्रियां कृत्वा, चतुरशीतिलक्षजीवयोनिगतजीवान् क्षमयित्वा, अष्टादशपापस्थानानि व्युत्सार्य, चतुःशरणानि कृत्वा, शुभभावनां भावयन् निद्रावशीभूतो निद्रां प्राप्तः । अथ याममात्राऽपररात्रेऽसौ पुनः बुबुधे। पञ्चपरमेष्ठिपदानि संस्मरन्नुत्थितः, यत उत्तमानां निद्रा-ऽऽहार-कलह-क्रोध-कामा एते पञ्चापि दोषा प्रबला न भवन्ति, मन्दा भवन्तीत्यर्थः । अथ चास्मिन् समये धन्यः किञ्चित् शुभसूचकं शिवाशब्दं शुश्राव, यतः पुण्यवतां पुरुषाणां प्रायो निमित्तानि शुभानि सानुकूलान्येव भवन्ति।धन्येनापि तं शब्दं श्रुत्वा पूर्वाऽभ्यस्तशकुनशास्त्र विचिन्त्य निर्धारितम् यद् 'दिवा दुर्गाशकुनफलं रात्रौ च शिवाशकुनफलं निष्फलं न भवति'।
ततः सूक्ष्मबुद्ध्यास्य फलं विचारितं तदा शिवा एवं वदति-कोऽपिधीरपुरुष एतत्सरित्प्रवाहतःशब निष्काशयति, तत्कटिस्थानानि + रत्नानि गृह्णाति शवं च मम भक्षयितुं ददाति तदा भव्यं भवति' । एवं शिवाशब्दार्थ विचार्य ततः स्थानाद् धन्य उत्थितः ।
॥७२॥
Jan Education intamosional
For Personal & Private Use Only