SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् ॥ ७१ ॥ धन्योक्तिं श्रुत्वा तेन हालिकेनाऽप्यनुमतम् -'भोः सज्जन ! यथेप्सितं कृत्वा भोजनानुग्रहं कुरु' । एवं हालिकादेशं प्राप्य स्वयमेवोत्थाय हलं ग्रहीत्वा खेटयितुं लग्नः, तावता हलं स्खलितम् । तदा धन्येन स्वभुजबलेन हलाकर्षणं कुर्वता भूमिगतदृषद्भङ्गेन भूमिगृहगतम् अपरिमितद्रव्यसङ्ख्यं निधानं प्रकटितम् । यतो भाग्यवतां सर्वत्राऽनीप्सिताऽपि संपद् आविर्भवति । यदुक्तं च"निरीहस्य निधानानि प्रकाशयति काश्यपी । बालकस्य निजाङगानि न गोपयति कामिनी ॥१॥ स्वर्णपूर्ण निधिं दृष्ट्वा उदारचित्तेन धन्येन हालिकाय समर्पितः । यथा सम्यग्ज्ञानवतां योगिनां किमज्ञेयम् ? तथोदाराणां सत्पुरुषाणां किमदेयं भवति ? । ततो हालिकेनोक्तम्- 'भोः सज्जनशिरोमणे ! तव भाग्यनिधित्व हे तोरयं निरवधिः सेवधिः प्रादुरभूत्, अत इमं त्वमेव गृहाण' । तदा धन्येनोक्तम्- 'भ्रातः ! मम परकीयधनग्रहणे नियमोऽस्ति, भूमी च भवदीया; तेनेदं भवदीयं धनं, यद् रोचते तत् कुरु' । ततोऽतिविस्मय-भक्तियुक्तेन हालिकेनोक्तम्- भो महाभाग ! त्वयाऽनर्गलं धनं दत्त्वा मम दारिद्योच्छेदः कृतः । अधुना तु भोजनं कुरु' । ततोऽत्याग्रहवशेन धन्येन हालिकोपढौकितं भोजनं कृत्वा हालिकं चापृच्छ्याऽग्रतोऽगमत् यतो विश्वोपकारकारकाः सज्जनाः सूर्यवद् नैकत्रस्था भवन्ति । अथ धन्यगमनान्तरं हालिको विचिन्तयति - 'सत्यपुरुषधन्याल्लब्धं महाधनं निःशङ्कतया यदि भुज्यते तदा परगृहभञ्जका लोका अनेकैः प्रकारैर्वार्ता करिष्यन्ति । एवं परस्परं विवदमानाः कदापि काले राजद्वारे विदिता भविष्यन्ति, तदा दुर्बलकर्णो राजा पिशुनैः प्रेरितो मां कारागारे क्षिप्त्वा मम सर्वस्वं ग्रहीष्यति, तदाऽमतिदुःखी भविष्यामि । अतः प्रथमतोऽहं राजानं यथास्थितं समनुज्ञाप्य पश्चाद् यथादेशं करोमि, तदा मम आयतिसुखं भविष्यति' । इति ध्यात्वा हालिको राजानं गत्वा यथास्थितं धन्यवृत्तान्तमाचष्ट। राजापि हालिकोक्तां धन्यकथां श्रुत्वा विस्मितचितो हालिकमुवाच'भो हालिक ! यत् क्षेत्रतो निधानं लब्धं न तद् महदाश्चर्यम्, यतः पृथिव्यां पदे पदे निधानानि सन्ति । परन्तु यद् निधानं लब्ध्वा Jain Education International For Personal & Private Use Only चतुर्थः पल्लवः ॥ ७१ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy