________________
श्रीधन्यचरित्रम्
चतुर्थः पल्लवः
॥७०॥
"गजं हस्तसहस्त्रेण, शतहस्तेन वाजिनमा शङ्गिणंदशहस्तेन, देशत्यागेन दुर्जनम" ||शा इत्यादि मनसि सम्प्रधार्य धनसारतनयो 'देशाऽवलोकनक्रीडानीडोन्मुखपक्षिरूपो जातः।
इत्येवं वर्तमाने कस्यचित् सम्बन्धिमहेभ्यस्य गृहे महोत्सवो जातः । तदाऽस्य पित्रादिस्वगृहमनुष्या महोत्सवव्यग्रचित्ता गमनाऽऽगमन-धावन-वल्गनादितत्कार्यप्रयासेन खेदखिन्नाः श्रान्ताः सुखनिद्रया सुप्ता घोरनिद्रावशीभूता जाताः । तिस्मिन् | रात्रौ समस्तपौरजने प्रसुप्ते सति एकाक्येव धन्यो गृहान्निर्गतः, नमस्कारमहामन्त्रं स्मरन् मालवदेशोन्मुखं प्रस्थितः । रमाकेलिक्रियापदं मालवजनपदमभिव्रजन् अनेकग्राम-नगर-वनानि विलोकयन्'मध्याह्ने क्षुधितो जातः । तस्मिन् समये क्षेत्रमेकं मार्गस्थितं ददर्श तस्य क्षेत्रस्योपकण्ठे वटवृक्षस्याऽधस्तले क्षुधया बाधितः क्षणं विश्रान्तः । अथ तस्मिन् क्षेत्रे कश्चिद् हालिकः क्षेत्रं खेटयतिः, एतावता तस्य हालिकस्य पत्न्या किञ्चित् पर्वदिनं ज्ञात्वा शालि-दालि-घृताकुललपनश्रीप्रमुखमिष्टान्नयुक्तं भक्तमानीतम्। तदा हालिकेन सुन्दराकारं क्षुधा-तापादि-परिम्लानमुखं धन्यकुमारं दृष्ट्वा इति विचिन्ततम्-'अहो ! अयं सुन्दराकारः कश्चित् सत्पुरुषस्तापादिबाधितोऽत्र वटे विश्रान्तो दृश्यते । अथैनं भोजनार्थ निमन्त्रयामि' । इति निश्चित्य धन्यसमीपमागत्य सादरं भोजनाय न्यमन्त्रयत् । धन्योऽपि तदुक्तं श्रुत्वा ससाहसमित्युवाच-'भोः चित्तज्ञशिरोमणे ! अहं स्वभुजार्जितं भुजे । यतः सिंहाः सत्पुरुषाश्च क्षुधिता अपि परोपार्जितं भक्ष्यं न भुञ्जते । अतः शिष्टसमयप्रतिपालनाय यदि तवाज्ञा भवति तदा क्षणं हलेन क्षेत्रं कृषामि, ततोऽहममृतं भोक्ष्ये। यतः गुरुवंशस्य स्वभुजार्जिता भुक्तिः गौरवं-महत्त्वं दत्ते' । इति
॥७०॥
१. क्रीडारूपपक्षिगृहोन्मुखो प्र. २. एकस्मिन् दिने प्रबलतापमध्या प्र. १
en Education International
For Personal & Private Use Only