________________
श्रीधन्य
चरित्रम्
चतुर्थः पल्लवः
॥६९॥
'सर्पः क्रूरः खलः क्रूरः, सात क्रूरतरः खलः। मन्त्रेण शाम्यते सर्पः, खलः केन नशाम्यते" ||१||
तस्माद् न विश्वसनीयाः । एवं भ्रातृपत्न्युक्तं श्रुत्वा धन्यो विचिन्तयति - 'धिगस्तु तं पुरुषं, यो विवेकसरसि तत्त्वाऽतत्त्वविज्ञानगुणेन कलहंससदृशोऽपि स्वानुषङ्गतः कलहं प्रदीपयेत्, कलहकारणान्न विरमतीत्यर्थः । अत्रस्थितेन | 'मयाऽऽमयेनेव गुणसिन्धूनां बन्धूनां सौख्यं न भवति। कारणयोगात् कार्य प्रबलयति, तद्विरहे तदपि न, अतोऽन्वयव्यतिरेकाभ्यां ममात्र स्थातव्यं न युक्तम्, कस्मिंश्चिद् देशान्तरे यामि । यतो देशान्तरगमनं चातुर्यमूलम् । यतः
"देशाटनं पण्डितमित्रता च; वारङ्गना राजसभाप्रवेशः। अनेकशास्त्रार्थविलोकनं च, चातुर्यमूलानि भवन्ति पञ्च" ||१|| "दीसइ विविहचरिअंजाणिज्जइ सज्जण-दुज्जणविसेसो।
अप्पाणं च कलिज्जइ हिंडिज्जइ तेण पुहवीए" ||१|| तथा स्वकलासु कौशलं भाग्यं बलं स्थैर्य बुद्धिविभवश्च, एषां पञ्चानां देशभ्रमणकषोपलेन परीक्षा क्रियते । ते नरा धन्या ये Mमनोविनोदकारीणि निधानानीव कौतुकानि पदे पदे पश्यन्ति । धर्मशास्त्रेऽप्युक्तम्-''संकिलेसकरं ठाणं, दूरओ पडिवज्जए' इत्यादि । तथा नीतिशास्त्रेऽप्युक्तम् -
१. मद्दार्पदुत्पन्न रोगेण प्र. २. दृश्यते विविधचरितं ज्ञायते सज्जन-दुर्जनविशेषः । आत्मा च कल्यते हिण्ड्यते तेन पृथ्व्याम् ॥१॥ ३. संक्लेशकरं स्थानं दूरतः प्रतिवर्जयेत् ।
॥६९॥
Jan Education Interational
For Personal & Private Use Only
www.jainelibrary.org