SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥६८॥ "अतोऽयं धन्यो लघुरपि कुलदीपकः । अस्यैव चाऽग्रजास्त्रयः शरीरादिना स्थूला अप्यकिञ्चित्कराः, केवलमस्य पृष्ठे निजोदरपूरणं कुर्वन्ति' । इति पौरजनानां वचांसि श्रुत्वा त्रयोऽप्यग्रजाः प्रभूतमात्सर्य हिमानीपाततो दग्धसद्बुद्ध्यङ्कुरपुराः क्रूराशया इति परस्परं मन्त्रयन्ति स्म - "आः ! अस्मिन् धन्ये जीवति सति किमस्माकं पौढतावृद्धिर्भवति ? अपितु न भवत्येव । स्फुरद्भानौ भानूदये किमु तारकाः स्फारकान्तियुक्ता भवन्ति ? । अतोऽयं ' स्वीकायाऽनुज' इति सम्बन्धं सम्प्रधार्य नोपेक्षणीयः । स्वाङ्गजो व्याधिरुपेक्षितः किमाधिं न करोति ? तस्मात् सदयभावं परित्यज्य अयं विनाशयिष्यते तदाऽस्माकं तेजोवृद्धिर्भविता । दीपोऽपि दीपवर्तिकां दग्ध्वैव दीप्यते नान्यथा" । इति परस्परं मन्त्रयित्वा धन्यविनाशनाऽऽर्तौ पतिताः । अथ तेषां सुगुप्तोऽपि मन्त्रो बुद्धिप्रागल्ल्येन कथंचन इङ्गितादिविज्ञानेन च धन्येन ज्ञातः, यतः पातालगतमपि जलं बुधा बुद्धया न जानन्ति किमु ? । उक्तञ्च - "आकारैरिङ्गतैर्गत्या चेष्टया भाषणेन च । भू-नेत्रा -ऽऽस्यविकारेण लक्ष्यतेऽन्तर्गतं मनः " ॥१॥ पुनः"उदीरितोऽर्थः पशुनाऽपि गृह्यते, हयाश्च नागाश्च वहन्ति 'नोदिताः । अनुक्तमप्यूहति पण्डितो जनः, परेङ्गितज्ञानफला हि बुद्धयः " ||१|| तथा धन्यगुणैराकृष्टचित्ता भ्रातृपत्न्योऽपि भक्त्या रहसि स्वभर्तृणामाकूतं धन्यं प्रति कथयामासुः - 'अतो हे देवर ! भवता सावधानत्वेन स्थेयम् । अस्मदीयस्वामिनस्तु दुर्जनस्वभावत्वाद् असूयादृग्दोषेण सन्मतिमूढा जाताः सन्ति । यतः - १. प्रेरिताः । Jain Education Intemational For Personal & Private Use Only चतुर्थः पल्लवः ॥६८॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy