SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् ॥६७॥ योऽप्यग्रजा विषमविषमूर्च्छिता वभूवुः । ततः सकलेऽपि च नगरे धन्यस्य सर्वन्यायविदां मान्यतया स्वकीयपुण्यतपस्तेजस्यता यशः कीर्तिप्रौढतया सुहञ्जनपोषितया च अमित्राः शोषमगमन् । राज्ञः प्रसत्तिपात्रं सामन्तादीनां च पूज्यो धन्यः सभायामासीनो जनैरपरभूपतिरूपं जगे । एवं कियत्यपि काले गते एकदा राजसभातो राज्ञः प्रणामं कृत्वा उत्थितो दिव्यवस्त्राभरणभूषितो नानामणिमुक्ताफलः झुम्बनकादिविचित्ररचनारचितमुखासनाधिरूढो नानादेशागत भट्टोद्गीर्णयशःप्रसरो, अनेकसामन्त-श्रेष्ठिमहेभ्यैः सविनयं प्रणतो, मार्गे दीन-हीनजनेभ्यो दारिद्रयोच्छेदकं दानं ददानो, अनेककरि तुरग-भट-चमूपरिकरितो, नानादेशोत्पन्नाऽनारोहितरत्नाभरणभूषिताऽग्रीकृतहयनृत्ययुतः पञ्चविधवादित्रनिर्घोषपुरस्सरं राजमार्गमुल्लङ्घय स्वकीयगृहासन्नं | यावदागच्छति तावत् ते धन्याग्रजाः स्वस्वगवाक्षस्थिताः पूर्णाश्चर्याः पश्यन्ति । तद्वसरे पौराः प्रवदन्ति “भो जनाः ! दृश्यतां दृश्यतां पूर्वजन्मकृतपुण्यबलम् ! यदयं लघुकोऽपि स्वतेजसा वृद्धानामपि मानीनयोऽस्ति । तेजस्वत्त्वमेव महत्त्वनिदानं, परन्तु न वार्द्धक्यम् । यतः ‘तेजस्विनां हि न वयः समीक्ष्यते' इति वचनात् । तेजस्वान् लघुरपि प्रशंसनीयः' न तु स्थूलः । यदुक्तम् - "हस्ती स्थूलतनुः स चाऽङ्कुशवशः किं हस्तिमात्रोऽङ्कुशः ?, दीपे प्रज्वलिते प्रणश्यति तमः किं दीपमात्रं तमः ? । वज्रेणापि हताः पतन्ति गिरयः कि व्रजमात्रो गिरिः, तेजो यस्य विराजते स बलवान् स्थूलेषु कः प्रत्ययः ?” Jain Education International For Personal & Private Use Only चतुर्थः पल्लवः ॥६७॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy