________________
श्रीधन्य
चरित्रम्
॥६६॥
दुर्जनानां मर्मकथने स्वस्वयैव दुःखाय भवतीति नीतिवाक्यं स्मृत्वा तद् लात्वा गतः । धन्यस्य तु स्वभाग्योदयतोऽनुपमं क्रयाणकं हस्ते चटितम्, नाऽत्र कस्याप्युपकारोऽस्ति । यद् दुर्जनैरुद्वेगाय कृतं तत् स्वभाग्योदयेन परमसुखाय जातम् । तं सुखोदयं दृष्ट्वा दुर्जना अस्योदयमसहमाना मां प्रति दुर्बुद्धिं दातुमागताः । परं ममानीत्या प्रवर्तनं सङ्गतं न यतोऽनीत्या इहलोकराज्यमपि | नश्यति, परभवे च दुर्गतिभाग् भवति । यदि पूर्व सर्वैर्महाजनैर्मयाऽपि च 'तेजमतूरी' इति ज्ञातमासीत् तदा कस्यापि दातुं | प्रवृत्तिर्नाऽभविष्यत् । अतो धन्येन स्वभाग्योदयतो लब्धं धनं धन्यस्यैव भोक्तुं योग्यं, नापरस्य । ततो मयापि चाऽऽज्ञा दत्ता-सुखेन | स्वैरं भोक्तव्यम्' । इति सभासमक्षं प्रसादीचकार । धन्येन चोत्थाय 'महती महाराजस्य बालोपरि कृपा' इत्युक्त्वा प्रणामो विहितः । पुनस्तद्गुणरञ्जितो राजा सभ्यजनाग्रे धन्यस्य सौभाग्यदिगुणान् वर्णयति स्म - "भो जनाः ! दृश्यतामस्य धन्यस्य बालत्वे | वार्द्धक्यमिव पक्वबुद्धित्वम् । पुनर्दक्षत्वं च दृश्यतां यैर्नित्यं क्रयाणकक्रय-विक्रय-कुशलैर्नानादेशपरिभ्रमणेनाऽनेकेषामुत्पत्तिनिर्णयविज्ञाननिपुणैः परिणतैकवयोभिर्महेम्यैरपि न ज्ञातं तत्सर्वमनेन सर्वप्रकारैरुपलक्षितम् ! । अतो मम नगरवास्तव्यजनानां मध्येऽयं | धन्य एव धन्योऽस्ति । एतादृशैरेव पुरुषः 'पृथ्वी रत्नगर्भा' इति कथ्यते"। एवं बहुधा वर्णनं कृत्वा वस्त्राभरणादिना सत्कृतः । भाषितश्च'भो धन्य ! नित्यं मम सभायामागन्तव्यम् । त्वत्सदृशेन सत्पुरुषेण सभा शोभना भवति । सर्वेषां च मन्त्रि - सामन्तादीनामाज्ञा दत्ता यदस्मत्सभायां शिष्टाशिष्टगतं न्यायादिकरणमन्त्रणं तत्सर्वमस्य बुद्धिनिधेरग्रे निवेद्य अस्यानुकूलं विधेयं, नान्यथा । इत्युक्त्वा धन्यो विसृष्टः । धन्योऽपि च राजदत्तवस्त्रालङ्कारं परिधाय राजदत्तवाहनमारुह्य राजानं प्रणम्य च निर्गतः । तदा राज्ञा आतोद्यवादकध्वजकारक-बिरुदपाठकादीनामाज्ञा दत्ता- 'नित्यं महाडम्बरपूर्वकं धन्यो गमनागमनसमये सावधानतया गृहं यावद् नेयः' । ततो राजदत्तमहाडम्बरपूर्वकं नगरचतुष्यथे भूत्वा स्वगृहमागत्य पितरं ननाम। पितापि तस्य महद् राज्यमानं दृष्ट्वा परमहर्षितो बभूव । ते
Jain Education International
For Personal & Private Use Only
चतुर्थः
पल्लवः
॥६६॥
www.jainelibrary.org