________________
श्रीधन्यचरित्रम्
॥६५॥
Jain Education In
अथ धन्यो राज्ञोऽग्रे उपायनं धृत्वा नमस्कारं कृत्वा राजादेशेन च यथास्थानं निविष्टः । राजापि तं भाग्याधिकं रूपवयश्चातुर्यभूषितं धन्यं दृष्ट्वाऽतिप्रसन्नचित्तो वदति स्म 'भो धन्य ! तव सुखसमाधिर्वर्तते' ? । धन्येनोक्तम्-'भवतां चरणप्रसत्तेः । यतः प्रकृतीनां सुखैककारणं भूपतिः, पितरौ तु केवलं जन्मदायकौ, ततः परं सर्वसांसारिकसुखानुभवस्तु राजासाद् भवति। अद्य पुनर्मम महान् भाग्योदयः, यतो महाराजेन महतीं कृपां कृत्वाऽहं स्मारितः, तेन मम सुखोपरि सुखं न काऽपि न्यूनता स्थिता' । |इति धन्यस्य प्रतिवचः श्रुत्वा सन्तुष्टो जातः । पुनर्धन्यमादिशति - 'धन्य ! अस्मत्प्रवहणगतक्रयाणकभागः किमपि गृहीतो नवा' ? | तदा धन्येनोक्तम्- 'महाराजस्य यादृशी शिशोरुपरि कृपा समस्ति तादृशो भागोऽपि मया लब्धः ' । राज्ञोक्तम्- 'कथम्' ? । तदा धन्येन सर्वो व्यतिकर आमूलचूलतो निवेदितः । वस्तु अनुपलक्ष्य 'कुत्सितमिदम्' इति स्थापयित्वा मां बालं च ज्ञात्वा मम शिरसि ढौकितम् । मूल्यमपि तैरेव कथितम्। मया तु तद् वस्तु गुरुकृपया समुपलक्ष्य मौनमाधाय स्थितेन तैर्यद् दत्तं तत् प्रमाणिकृतमस्ति । | अनया रीत्या प्रवहणगतभागो लब्धः । तद्भागागता तेज़मतूरी मम गृहे भरी वर्तते । अतः परं तु भवदाज्ञा प्रमाणम्' । इत्येवं धन्यस्याऽवितथव्यतिकरं श्रुत्वाराजा विहस्य सभ्यजनेभ्य इति कथयितुं प्रवृत्तः दृश्यताम् अहो सांसारिकलोकानां परसुखेर्ष्यादोषप्राबल्यम् !, यतः स्वस्याऽज्ञानवशाद् वस्तु गुणतोऽनुपलक्ष्य 'स्वार्थोऽसाधकम्' इति ज्ञात्वा कापट्यरचनां कृत्वा | धन्यशिरसि ढौकितम् । तस्मिन् समये तु तैः सर्वैर्निश्चितं भविष्यति यद् 'इदं कुत्सितं वस्तु अज्ञत्वादयं बालो ग्रहीष्यति । यद्यस्य तात आगतोऽभविष्यत् तदा नाऽग्रहीष्यत् । भव्यं जातं यदयं बालः प्रेषितः । तस्मात् शिरस उत्तीर्ण कस्यापि शिरसि निपततु' इति कुटिल बुद्धया धन्याय दत्त्वाऽऽत्मानं विचक्षणं मन्यमानाः स्वस्वेष्टं क्रयाणकं गृहीत्वा गताः सर्वैरपि स्वार्थ एव वल्लभः कृतः, | न केनाप्यस्य दया विचारिता । ततोऽनेन सर्वेषां दौर्जन्यविलसितं दृष्ट्वा विचलक्षणत्वाद् मौनमाधाय स्वेष्टं चाङ्गीकृतम् । यतो
For Personal & Private Use Only
चतुर्थः
पल्लवः
॥६५॥
www.jainelibrary.org