________________
श्रीधन्य
चरित्रम्
॥६३॥
| कदापि काकतालीयन्यायेन एक-द्विकादिवारं मूर्खस्य साहसकार्य प्रध्वरमागतं तेन हे तात ! मनसि हषोंत्सुक्यात् तस्यैव प्रशंसनं प्रस्फूलनं च न कर्तव्यम् । शिष्टजनाचीर्णव्यवहारावसरे तु तदेव प्रस्फूलनं जनगर्हणीयभावं प्रापयति । अनेन बालेन लवणधूल्यानयनेन अस्मद्गृहस्य महत्त्वं निर्नाशितम् । राजदेयं द्रव्यं तु शीघ्रं दातव्यं भविष्यति, वस्तु विक्रयस्तु निर्लवणा मही भविष्यति तदैव ज्ञेयः । यथा लोकोक्तिः - लङ्कालुण्टनकाले निर्भाग्येन स्वहस्तेन तापनं लब्धम्' । अतो यूयं पुत्रश्च मिलित्वा | विचारयत अस्मिन् व्यापारे कियत्परिमितो लाभो भविष्यति' ! इत्येवं हास्यं कुर्वतो दृष्ट्वा ईषत्साशङ्को धनसारो धन्यमामन्त्र्य पृच्छति स्म - पुत्र ! प्रवहणे बहुषु क्रयाणकेषु सत्सु त्वया किमिदं धूलीपुञ्जरूपं क्षारमृन्मयं वस्त्वानीतम्' ? । इति पित्रोक्तं श्रुत्वा धन्यः सविनयं पितरं प्रत्युवाच - "हे तात ! तव चरणप्रसत्तेर्दारिद्यवनदाहकं वस्तु हस्ते चटितम् । सर्वैर्महेभ्यैस्तु | वस्तुप्रभावाऽविज्ञयता यत्किञ्चिदिति ज्ञात्वा कपटरचनां कृत्वा मे शिरसि ढौकितम्, मया तु श्रीमदगुरुचरणप्रसादतः समुपलक्ष्य चाऽङ्गीकृतम् । तत्प्रभावश्च श्रुयताम् एषा मृत् सामान्या न ज्ञेया, यस्याः स्पर्शवशाद् लोहं स्वर्णरूपं भवति । पारसपाषाणखान्यन्तर्वर्तिनी इयं धूली नाम्ना 'तेज्तंस्तूरी' विश्वदारिद्यहारिका । यस्या रतिमात्रमात्रया विद्धं पलाऽष्टकमितं ताम्रं हेमीभवेत्' । इति पितुरग्रे निवेद्य तस्यामेव वेलायामुक्तक्रियया ताम्रस्य लोहस्य च स्वर्ण कृत्वा दर्शितम् । एवं पुनः पुनः | क्रियया अनेकस्वर्णकोटिद्रव्यं निर्मापितम् । मातर - पितरौ त्वत्यन्तं हर्षितौ । अग्रजत्रिकमन्तरा समस्तपरिजनाः प्रतिक्षणं प्रशंसन्ति । ते तु ज्वलितान्तःकरणास्तिष्ठन्ति ।
Jain Education International
अथ केनापि धन्योदयाऽसहमानेन पिशुनेन राज्ञोऽग्रे निवेदितम्- 'स्वामिन् ! धनसारपुत्रो धन्यः सर्वान् महेभ्यान् भवन्तं च वञ्चयित्वा स्वल्पमात्रं मूल्यं दत्त्वा तेजमतूरिकाभृतान् अनेककलशान् लात्वा गतः, कस्याऽप्यग्रे न निवेदितम् । अतः सा तेजमतूरिका
For Personal & Private Use Only
चतुर्थः
पल्लवः
॥६३॥
www.jainelibrary.org