________________
श्रीधन्य
चरित्रम्
॥ ६२ ॥
देयं तदा शीघ्र दातुं शक्यते । तत पिताऽपि अस्मदुपरि प्रसन्नचित्तो भविष्यति, यद् मम बालपुत्रं भद्रकं ज्ञात्वा स्वल्पद्रव्यप्रयासं | वस्तु दत्तम् । अतो मृदं गृहीत्वा सिद्धिं कुरु, भव्यं भविष्यति' । तदा धन्यकुमारेणापि शिष्टाचाररीत्या प्रतिवचो दत्तम्- 'महान्तो वृद्धा ईदृशा एव भवन्ति, बालादीनां वृद्धा हितकरा भवन्ति । महाजनानामयं प्रसादः सर्वकामदो भविष्यति' । इति मिष्टवचनैः सन्तर्प्य विसृष्टाः । धन्यश्चिन्तयति दृश्यतां स्वार्थपूरणार्थं दम्भकौशल्यम् ! । मम बालभावं ज्ञात्वा कीदृशीं वञ्चनां कृत्वा | परीक्षाज्ञानविकलाः 'कुत्सितवस्तु' इति धिया मम शिरसि ढौकयित्वा गताः ? संसारे स्वार्थ विना न कस्यापि कोऽपि वल्लभो भवति । मया तु श्रीदेवगुरुपादप्रसत्तेः सहजेनाऽपरिमितिलाभो लब्धः' । इत्येवं परीक्षकशिरोरत्नं धन्यः स्वल्पमूल्येन तां मृदं | लात्वा स्वगृहं निन्ये । ततो धन्याग्नजास्त्रयः क्षारधूलिभृतान् कलयान् वीक्ष्य ईर्ष्यादोषवशाद् हस्तालिदानपूर्वकं हसन्तः पितुरग्रे धन्यस्य मूर्खत्वमारोपयन्ति स्म । " भोस्तात ! पश्य तव दक्षपुत्रस्य वस्तुग्रहणकौशल्यम् ! । यतो विविधदेशोत्पन्नानि विचित्रप्रभावाणि दुर्लभानि इहदेशेऽपूर्वाणि महामूल्यानि श्रुतपूर्वाणि परमदृष्टपूर्वाणि भाग्यैकलभ्यानि वस्तूनि अस्मिन् प्रवहणे बहुतराण्यासन् । तन्मध्याद् ये ये व्यापारेषु क्रय-विक्रयकर्मकुशलाः क्रयाणकानामुत्पत्ति-गुण-संयोजनभेदेषु दक्षास्ते ते सर्वे स्वस्वाऽभीष्टसाधकं समुपलक्ष्य तदेव गृहीत्वा स्वकीयार्थप्रयोजनमपूपुरन्, युष्मदीयेष्टपुत्रस्तु तैर्ग्रहणं कुर्वद्भिर्यदुद्गीर्णं, न केनापि चाऽङ्गीकृतं निकुत्सितधूलिपुञ्जरूपं लवणं हीनजनोचितं लात्वाऽऽगतः । यस्मिन् शुद्धलवणत्वमपि न विद्यते । लवणग्राहकस्तु एनद् हस्तस्पर्शमपि न करोति, केवलधूल्या गृहं पूरितम् । अथ लवणस्य कया रीत्या क्रय-विक्रयौ भविष्यतः ? | पूर्व यैः सुवर्णरत्नवस्त्रादिभव्यजनोचिता व्यापाराः कृतास्तेषां लवणापणं कुर्वतां पूर्वोपार्जितप्रतिष्ठा विनश्यति । येन तेनापि बाल-मूर्खादिना यदि व्यापार क्रियया गृहनिर्वाहो भवेत् तदा निपुणानां को गवेषणां कुर्यात् ? । गुणावतामवसरे परीक्षा जायते ।
Jain Education International
For Personal & Private Use Only
चतुर्थः
पल्लवः
॥ ६२ ॥
www.jainelibrary.org