________________
श्रीधन्य
चरित्रम्
चतुर्थः पल्लवः
आहूय तान् विभज्य देयम् । यतो राजदेयं लभ्यं वा सर्वैः संमील्य कर्तव्यम्, एकेन पुनर्निर्वोढुं न शक्यम्, अत आगतदिने सर्वान् वणि आहूय विभज्य यथायोग्यं ग्रहीष्यामः' । इति सूत्रयित्वा स्वस्वगृहं गताः । प्रभाते पुनर्मिलितास्तदैकेनोक्तम्-'धनसारस्य कोऽपि नागतः, अतस्तस्याप्ययामन्त्रणं कार्यम्' । ततस्तैर्धनसारगृहे आकारणाय मनुष्यः प्रेषितः । धनसारेणाणि तदुक्तं श्रुत्वा | वृद्धेभ्यः पुत्रेभ्यस्तत्र गमनार्थमनुज्ञापितम् । तदा अन्तर्मत्सरिणस्ते पुत्रा एवमूचुः-'भोस्तात ! किमस्मान् प्रेषयसि ? स्वकीयं दक्षपुत्रं किं न प्रेषयसि ? । यतोऽस्य दक्षत्वमपि ज्ञास्यते कीदृशं वस्तुग्रहणकौशल्यम् ! । नित्यं त्वं यस्य प्रशंसां करोषि तस्य परीक्षाकषपट्टस्थानं समागतम्, अतस्तमेव प्रेषयित्वा लाभं गृहाण । ईदृशं पुत्रोक्तं श्रुत्वा धनसारेण धन्यः प्रहितः । . पावित्र्यनिधिर्धन्योऽपि पितुरादेशं लब्ध्या सपरिकरः शुभशकुनैरुत्साहितस्तत्र गतः । ततः सर्वेऽपि महेभ्याः स्वस्ववाणिज्यानुकूलवस्तुक्रणायकं विभज्य जगृहुः । परीक्षकशिरोरत्नं धन्यस्तु तत्र स्थितः सर्वेषांक्रयाणकानां दृष्टिपथाऽवतीर्णानां स्वबुद्ध्या परीक्षां कृत्वा मौनमाधाय स्थितः । तावता क्षारमृद्धृतकलशविभजनाऽवसरो जातः, परन्तु तद्ग्रहणाय न कोऽपि करं प्रसारयति । ततः सर्वैः सम्भूयाऽऽमन्त्रितम्-'अयं बालो धन्यकुमारक एव वञ्च्यताम्, यतोऽयं बालत्वात् सव्याऽपसव्यं किमपि न ज्ञास्यति । अतो वचनरचनां कृत्वा बालस्य योग्यं वस्तु बालस्यैव दीयताम्' । 'भो धन्यकुमार ! त्वं प्रथमवयसि | प्रथमव्यापारायागतः, अत इदं मङ्गलरूपं मृद्दव्यं गृहाण । यतः प्रथम स्तोकायासं स्तोकव्ययं च कार्यं क्रियते, पश्चाद् बहुबहुतरं क्रियते, ततो अधिकाऽधिकतरा बुद्धिः सम्भवति, मतिविभ्रमश्च न भवति, अल्पारम्भाः क्षेमकरा भवन्ति' इति वचनात् । किञ्च, राजदेयं द्रव्यमपि अस्य स्वल्पं भविष्यति, लभ्यग्रहणे च राजा त्वरितो भवति, वस्तुविक्रयश्च यथावसरे भवति, ततश्च यदि स्वल्पं .
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org