SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् चतुर्थः पल्लवः ॥६ ॥ अथ चतुर्थ: पल्लव: अथ धन्यकुमारस्य त्रयोऽपि सहोदराः श्रीमता धन्येन सह तातचित्तानुवृत्त्यालोकलज्जया च कतिचिदिनान् सौभ्रात्रमदर्शयन्, परस्परं शिष्टाचारपूर्वकं गृहकार्य यथोचिंत निर्वहन्ति स्म । इतश्च प्रतिष्ठानपुरस्वामिनो राज्यदेशे समुद्रोपकण्ठवर्तिबिन्दरेऽन्यदाऽवसरे वातेनाऽतिप्रेरितं मृतस्वामिकमेकं महत् प्रवहणं समागतम् । तदा तदन्तर्वतिलौके: प्रतिष्ठानपुरेशो विज्ञप्तः-'स्वामिन् ! अस्य प्रवहणस्य स्वामी तु पोतमार्गे पञ्चत्वमापन्नः, तस्य परिजनस्तु कोऽपि नास्ति। अतो निःस्वामिकं द्रव्यं भूपतेर्भवति, तस्मादिदं द्रव्यं भवद्भिाह्यम् । यच्चाऽस्मदीयं तत् पोतगतमनुजेभ्यो निणयं कृत्वाऽस्मभ्यं देयम्' । ततो राज्ञा तन्निर्णयं कृत्वा यानपात्रवणिजो वसनादिभिः सत्कृत्य स्वस्वसम्बन्धिधनं च दत्त्वा विसृष्टाः । ततो गृहीतशम्बलास्ते स्वं स्वं स्थानं गताः । अथ नाविकैः सागरप्रवाहात् स्रोतसा पोतः पोतवद् मन्दं मन्दं समाकृष्य नगरान्तिकमानीतः। ततो भूपाज्ञया प्रवहणगतक्रयाणकभाण्डानि नाविकैरुत्तारितानि, अपराण्यपि प्रवहणोपकरणानि निष्काश्य भूमौ स्थापितानि । पुनस्तस्यैव प्रवहणस्याधोभागात् क्षारमृद्धृताः कलशा अनेकसङ्घय निःसृताः । तांश्च दृष्ट्वा भूपालप्रमुखैर्जनैरिति हृद्यवधारितम्-'नूनं | पोतपतेर्नगरे लवणं दुष्प्रायं दृश्यते, तेन कस्मादपि बिन्दरतः । क्षारभृत्कलशाः संगृहीताः सम्भाव्यन्ते' । ततो भूपतिः प्रतिष्ठानवास्तव्येभ्यानाकार्य सर्वं तत् क्र याणकं सन्दर्य प्राह-भो व्यापारिणः ! एतत्प्रवहणगतं क्र याणकं सकलव्यापारिजनप्रसिद्धमूल्यं दत्त्वा गृह्य ताम्, यथा कस्यापि द्रव्यं न त्रुट्यति, लाभस्तु स्वस्वभाग्यानुमानयोग्यः प्राप्यतां तत्राऽस्मदीयो लागो भागो नास्ति' । इति भूपोक्तं श्रुत्वा तैः सर्वैः परस्परमामन्त्रितम्-'राज्ञा दत्तं क्रयाणकं नगरगतसर्वव्यापारिण Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy