SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥५९॥ देवसभायां प्रवेशमपि न प्रापत । चिरं देवेषु जातिहीनतया तिस्कारदुःखं भुक्तवा ततश्चयुत्वा द्विजगृहे जन्ममूकः पुत्रीऽजनि । पूर्वकृतकर्मोदयाद् रोगाक्रान्तो दरिद्रश्च अनेकदुःखाभिभूतो मृत्वा भवे चिरतरं भ्रान्तः । यद्येवमागमतत्त्वज्ञः समस्त श्रुतवेत्ता आचार्यगुणधार्यपि च रुद्राचार्य एकयैव गुणेर्ष्यया घोरं दुःखं प्राप्तस्तदा ध्माताऽयोगोलककल्पानां तु का कथा ? । इत्थं धनसारो वदति- हे पुत्राः ! सम्यगालोच्य गुणरागिणो भवेत”। इति पितुर्वचनं श्रुत्वा त्रयोऽपि ते बान्धवा अन्तः सेर्ष्या बहिः शान्ता भस्मछन्नाग्नय इव कियतोऽपि वासरान् मौनमाधाय तस्थुः । असौ धनसारश्रेष्ठी धन्यकुमारपुण्यैः षट्षष्टिकोटिद्रव्यनायकोऽभूत् पृथिव्यां जनानां दौस्थ्यं भङ्क्तुं धनद इवावतीर्णः । इत्येवं रुद्रमुनीन्द्रेण कृतां बहुलोपद्रवकारिकां गुणिषु द्वेषितामवगम्य, तथा धन्यकुमारवत् सकलेप्सितपूरणकामदुघां गुणरागितां निशम्य, या इहामुत्र च भवे श्रेयस्करी भवेद् बुधाः ! तामेवाऽऽश्रयत, येनाऽविघ्नं संसारदुःखोत्तारणाय भवति । ॥ इति श्रीतपागच्छाधिराजश्रीसोमसुन्दरसूरिपट्टप्रभाकरविनेयश्री जिनकीर्तिसूरिविरचितस्य पद्यबन्धधन्यचरित्रशालिनः श्रीदानकल्पद्रुमस्य महोपाध्यायश्रीधर्मसागरगणिनामन्वये महोपाध्यायश्रीहर्षगणिनामन्वये महोपाध्याय श्रीहर्षसागरगणि प्रपौत्रमहोपाध्याय श्रीज्ञानसागरगणिशिष्याल्पमतिग्रथितगद्यरचनाप्रबन्धे षट्षष्टिकोटिद्रव्यार्जनो नाम तृतीयः पल्लवः ॥ Jain Education International 5 For Personal & Private Use Only तृतीयः पल्लवः ॥५९॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy