________________
श्रीधन्य
चरित्रम्
तृतीयः
पल्लव:
॥५६॥
ततो महामहोत्सवपुरस्सरमाचार्य प्रति चलितः । क्रियद्भिर्दिनै रुद्राचार्यमुपागात् । तत्र जैनमार्ग कुशलैर्भट्टर्बहुधा बिरुदैः स्तूयमानं उपाश्रयं प्रविष्टः । तद्यथा-वादिगरुडगोविन्द ! निर्जितवादिवृन्द, षड्भाषावल्लिमूल, परवादिमस्तकशूल, वादिकन्दकुद्दाल, वादिवृन्दभूपाल, वादिसमुद्रागस्ति वादिगगनगभस्ति, वादिगोधूमघरट्ट, वादिमानमरट्ट, वाचालसरस्वती, शिष्यीकृ तबृहस्पति, सरस्वतीभाण्डागार, चतुर्दशविद्यालङ्कार, सरस्वतीकण्ठाभरण, वादिविजयलक्ष्मीशरण ! । इत्याद्यनेकैस्तदेकोत्कर्षवर्षिभिर्बिरुदवातैर्विद्धकर्णः सकर्णो-नीतिनिपुणोऽपि रुद्राचार्यों रोषमुद्रितोऽभूत् । यतः
"महतोऽपि भवेद द्वेषः सेवके तुङ्गतेजसि। कामदेव महादेवः किं सेहेऽधिकविक्रमम" ? ||२|| ___ महतामपि सेवकमधिकतेजसं दृष्ट्वा उदेति। यथा कामदेवमधिकविक्रमं दृष्ट्वा महादेवो रोषोदयाद् न सेहे इति हार्दम् । अथ ससंघेन बन्धुदत्तेन वन्दितो बहुभिः स्तुतिभिः स्तुतोऽपि स रुद्रः सासूयं वचोऽलपत्, दग्धपाषाणो जलसिक्तोऽपि किमनलं नोद्वमति? उद्वमत्येव । ततो रुद्राचार्यों बन्धुदत्तस्य गुणश्लाघाकरणं तु दूरेऽस्तु परन्तु सम्भाषणम्, आगमनोदन्तमपि नाऽपृच्छत्, यस्माद् महतामपि असूयावशाद् मौढ्यं भवति। धिक् कषायं यद्वशाद् बहुश्रुता अपि विपर्यासमासादयन्ति। येऽन्तर्मलिनाः स्युस्ते 4 आसन्नसेवकेऽपि निरादरा भवन्ति, यथा अन्तर्मलिनं लोचनं पार्श्वस्थानपि पक्ष्मान्तान् न पश्यति। अथ गुरुणाऽसत्कृतो बन्धुदत्तः पठने मन्दादरो जातः, पठनाभ्यासोऽनेन त्यक्तः । क्रमेणाऽनभ्यासाज्जडोऽभवत् । यथा बाल आरामोऽसिञ्चितः पत्र-पुष्पफलोज्झितो भवति तथा बन्धुदत्तो ज्ञान-क्रियादिषु शिथिलः संजातः।।
इतश्च साकेतपत्तने निष्कृपः कृपणः क्रुरः सर्पस्यानुज इवाऽदर्शनीयः कृपनामा नृपोऽस्ति । स राजा कुशास्त्रश्रवणाद्
|॥५६॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org