SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् तृतीयः पल्लवः भवतोऽनुमानं बाधते। 'तत्' शब्दः पूर्वपरामर्शकारी पूर्वाऽनुभूतस्वरूपसत्ताग्राहक इत्यर्थः, यत्र सत्ताग्राहकत्वं न भवति तत्र 'स एवायम्' इति प्रत्यभिज्ञाऽपि न भवति' । इत्युत्तरं श्रुत्वा पुनर्भिदुर उवाच-"ननु स्वकेशादयः छिन्नाः सन्तः पुनरङ्कुरादिभावेन उद्गता दृष्टाः, अथ तेषु स एवायम्' इति प्रत्यभिज्ञानं भवति; तद् भानं विसंवादि यथा दृष्टं तथा स्तम्भ-कुम्भा-ऽम्भोरुहसभा-भूभृद्-भवनादिषु अन्यथासिद्धमे वेदं प्रत्यभिज्ञानमिष्यते, न पुनः पूर्वानुभूतसत्ताग्राहकमिति' । इत्येवमुत्तराभासं श्रुत्वा पुनराह बन्धुदत्तमुनिः- "भोः प्रतिवादिन् ! चेद् यदि अध्यक्षदृष्टम्भो मृगतृष्णासु यथा, तथाऽध्यक्षमपि घटादिकं मिथ्या किं न भवेत् ? । एवं च सकलप्रत्यक्षपदार्थेषु अप्रामाण्यप्रसङ्गात् तवाऽनुमाऽपि न प्रमाणमर्हति, यस्मात् सा अनुमाऽपि प्रत्यक्षपूर्विका भवति, प्रत्यक्षं तु त्वयाऽसत् परिकल्प्यते। अर्थस्य चैकान्तक्षणनाशित्वे। न कोऽपि मातृघाती स्यात्, यस्माद्, यया जातः सा तु विनष्टा, या चाऽघाति सा परैव त्वन्मते । तथा स्त्रिया न कश्चित् स्वपतिः, पुरुषस्य च न काचन भार्या स्यात्, यदा स्त्रीपुरुषयोर्विवाहः संजातस्तौ तु तदैव विनष्टौ । तथा च सति न कापि स्त्री पतिव्रता, यस्य पुरुषस्य पाणिग्रहणं कृतं स तु तदैव विनष्टः । एवं सति व्रतग्राहकोऽन्यः, अन्यस्तु पालकः । तथा व्रतविराधको न कोऽपि भवति, यतो व्रतपतिव्रतग्रहणाऽनन्तरमेव विनष्टः, उत्तरकाले तु अन्य एव, तेनाऽप्रतिज्ञातत्वाद् विराधकपापं कथं लगति ? | भो वादिन् ! तव मते न्यासीकृतं चैकेन. पश्चाद् मार्गितमन्येन; अर्पक ग्राहको नष्टौ, धनमपि नष्टम्; तदा कः कस्य ददाति मार्गयति च ? | तथा भोजनस्य याचिताऽन्यः, भोक्ता त्वपरः भुक्तं चान्येन, तृप्तस्तु अन्य एव । एवं हि तव मते सर्वव्यवस्थाविलोपो भवति, तस्माद् हे भद्र ! भद्रंकरं जैनशासनं भज" । इत्येवं बन्धुदत्तमुनिायवाचा प्रतिवादिनं जिगाय, जयश्रीलब्धा । पुरे तु 'जितं जैनैर्जितं जैनैः' इत्युद्घोषणा प्रवृत्ता। राज्ञा बहु सन्मानितो बन्धुदत्तमुनिः । राजा धर्मरुचिश्च जातः । M ॥५५॥ Jan Education International For Personal & Prival Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy