________________
श्रीधन्यचरित्रम्
तृतीयः पल्लवः
॥५४॥
वादिनो जित्वा पाटलिपुत्रकं समागतोऽस्ति। अथ स तार्किको जितकाशितया जैनमुनीनपिजेतुमिच्छति, यतो दग्धभूरीन्धनोऽग्निः पाषाणमपि दग्धुं प्रवणयति । अत्र च कोऽपि तादृशो नास्ति यो तेन सह वादं कृत्वा निर्घाटनं कुर्यात्, अतो तं दुर्वादिनं जेतुं भवद्भिस्त्वरितमागन्तव्यम् । इत्येवं वचः श्रीसङ्घ आज्ञापयति, अतोऽनुल्लङ्घयं सङ्घशासनं कर्तव्यं भवति" | एवमागन्तुकमुनिमुखाच्छुत्वा उन्मुद्रविद्यासमुद्रो रुद्राचार्यः पाटिलपुत्रगमनाय प्रगुणोऽभूत्, यतो विबुधा मल्ला नृपाश्च विजिगिषु स्वजातिविपक्षं श्रुत्वा तस्य निर्घाटने विलम्ब न कुर्वन्ति, शीघ्रं गत्वा निरुत्तरं कुर्वन्ति । ततो यावता रुद्रचार्यस्तत्र गमनाय प्रवृत्तस्तावताऽपशकुनैः क्षुतादिभिर्बादं वारितः । तेन रुद्राचार्यस्तु तत्रैव स्थितः, यतो बहुश्रुता निमित्तद्वेषिणो न भवन्ति । ततो वादिवृन्ददमनसमर्थ बन्धुदत्तं तं दुदिनं जेतुमादिशत्, यथा सहस्रकिरणः प्रभाते ध्वान्तरिपुहननायाऽरुणमादिशति । ततो बन्धुदत्तमुनी रुद्रचार्यदेशं प्राप्य पाटलिपुत्र प्रति प्रस्थितः । अविच्छिन्नप्रयाणैः पाटलिपुरं गत्वा परवादिनाऽधिष्ठितां राजसभामासदत् । अथ तत्र राजसभायां मुनिमभ्यागतं श्रुत्वा दृष्ट्वा च वादवदनकौतुकावलोकनाय सहस्त्रशो लोका मिलिताः । तथा भाग्यैकलभ्याः सत्तत्त्वविवेकच्छेकबुद्धय उभयाऽभिमतगुणदोषतत्त्वज्ञाः सभ्यजना अपि बहुतराः सभायामभ्यागताः । प्रास्तदुर्नयोऽतिनिपुणो गुणानुरागी भूपतिः सिंहासनमध्यस्थः ।
अथ मिलितायां चतुरङ्गायां सभायां प्रथमतः सौगतमतमालम्ब्य भिदुरवादी सगर्व युक्तिजालमलपत् । तद्यथा "यत् सत् तत् सर्वं क्षणिकमिति, यथा दीपज्वालाकुलम्, सन्तश्च निखिला भावाः, तस्मात् क्षणविनश्वराः" । अथ भिदुरवादिना स्वपक्षस्थापनाय कृतप्रतिज्ञादिविरते च सति स्याद्वादवदनकोविदो बुद्धिनिधिबन्धुदत्तमुनिर्बलीयसीं तदुत्तरन्यायपटलीमवादीत्"यत् सत् तत् सर्वं क्षणिकं न भवति, यतः ‘स एवाऽयम्' इति स्थैर्यबलोद्भवा-सत्तामात्रबलोद्भवा अविसंवादिनी प्रत्यभिज्ञा
॥५४॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org