________________
श्रीधन्यचरित्रम्
॥५३॥
Jain Education Int
दुर्गादिपक्षिस्वर-गति-चेष्टादि । ज्योतिष्कम्-ग्रहचारादि । सामुद्रिकम् - पुरुष - स्त्रीगतशुभाशुभानि लक्षणानि । तथा आयान् धूम-ध्वज-सिंहादीन् अष्टावपि । स्वप्नम् - शुभाशुभसूचकानि स्वप्नानि । एवमष्टाङ्गनिमित्तशास्त्रेषु सर्वत्राऽमोघजिह्वः, नृपाऽमात्यादिबोधकृच्च, ईदृशस्तृतीयः सोमिलमुनिरस्ति । चतुर्थः कालकाभिधानो मुनिः, येनाऽतिगाढदुष्करक्रिया कृत्वा | त्रिजगत्कण्टकः प्रमादचरटो जितः । यः पुनः ईर्यासमित्या युगमात्रां भुवं पश्यन् सोप योगं नरकगतजीवोद्धरणचिन्तयेव न्यग्मुखो मन्दं मन्दं विचरति । तथा यो बहुकालं यावद् विनयाद्युपक्रमविधिनाऽभ्यस्ताया आकण्ठभूताया विद्याया निर्गमभीत्येव उद्घाटितवदनो न वदति । यो बाह्याभ्यन्तररजःशङ्कयेव अप्रत्युपेक्षितं भाण्डादि न गृह्णाति, न च क्षिपति । तथा यो दृष्ट्वा पवित्रितभूतले पादन्यासं करोति । सत्यभाषया प्रथम चतुर्थभङ्गयुक्तया मधुर-निपुणाद्यष्टगुणपवित्रितं जिनाज्ञायुक्तं वाक्यं वदति । सम्यक्छास्त्रानुकूलमनोयोगपूर्वकं तमाचारमाचरति । किं बहूक्तेन ? सर्वपावित्र्यमयः स मुनिः सर्वजन श्लाघनीयः । किञ्ज, तिस्त्रोऽपि गुप्तयः पञ्चापि समितयश्च एवमष्टौ प्रवचनमात्तृरनिशमाराधयासा । एतादृशः कालमुनिः शासनं शोभयति । तत्र गुणरागिणो ये लोकास्ते तस्य मुनेर्यदा विशेषेण पूजासत्कारादि कुर्वन्ति तदा तदुत्कर्षमसहमानो रुद्राचार्यो हृदि खेदमावहति । यतो इर्ष्यालुनरः स्फुरद्गुणं दीप्तिमन्तमन्यजनं द्रष्टुं क्षमो न भवति, प्रत्युत तदपकारचिन्तनपरो भवति । शलभो दुर्जनो दीप्तिमतीं प्रदीपशिखां दृष्ट्वा स्वकीयप्राणं दत्त्वाऽपि प्रदीपार्चिः किं नाऽपहरति ? अपहरत्येव ।
अन्यदा तत्र रुद्राचार्य समीपे कुसुमपुरतः श्रीसङ्घप्रहितं मुनियुगलं समागतम् । रुद्राचार्य वन्दित्वा स्थितम् । तदा रुद्राचार्येणागमनकारणं पृष्टम् । तावाहतुः - 'स्वामिन् ! सम्प्रतिकाले एकः षट्तर्की विद्वान् भिदुरनामा वादी प्रतिग्रामं बहून
For Personal & Private Use Only
तृतीयः
पल्लवः
॥५३॥
www.jainelibrary.org