SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् ॥५१॥ धन्यकुमारः स्वबुद्धया लेपादिना रालसन्ध्यवगुण्ठनया गुरुभारतया चरणाद्यङ्गानां स्थूलतया च रत्नगर्भा तां खट्बां मत्वा स्वर्णसप्तमाषकमूल्येन क्रीतवान् । सेवकैर्ग्राहयित्वा गृहं गत्वा गुणोदारः स पित्रादीनदर्शयत् । ततः पित्रा मोहेन न किमपि पृष्टम् । | प्रत्युत पित्रादिष्टाः स्नुषा अमूं यावदुत्पाट्य रभसवशाद् गृहान्तर्गृह्णन्ति तावत् समविषममोटनाद् विघट्टिताङ्गायाः खट्वाया रत्नवृष्टयः धन्यमहः श्रियो विश्वमिव गृहमपूरयन् । ततो लक्षकोटिमिताऽर्घाणां रत्नानां धोरणीर्वीक्ष्य सर्वे स्वजना धन्यकुमारमिति स्तुवन्ति Jain Education International "अहो भाग्यमहो भाग्यम्, अहो बुद्धिविशालता । अहो दक्षत्वं धीरत्वं पुत्रोऽयं कुलदीपकः” ॥१॥ 'अनेन धन्यकुमारेणाऽर्थिस्पृहा दानैर्भृता द्रव्यैर्गृहं भृतम्, कीर्त्या जगत्त्रयं भृतम्, मित्रजना हर्षेण भृताः, तथा सोदरा अमर्पेण भृताः' । एवं स्तुवन्तो लोकाः श्रितोदयं भास्वन्तमिव धन्यं बह्वमन्यन्त, किन्तु तमः प्रकृतयो धूका इवाऽग्रजा नैवाऽमन्यन्त । समस्तस्वजनाद् धन्यवर्णनं श्रुत्वा अग्रजास्त्रयोऽपि ईर्ष्यया ज्वलन्ति स्म । ततोऽसूयां कुर्वाणान् पुत्रान् पुनर्धनसारश्रेष्ठ्यन्वशिषत्मधुरया वाण्या उपदिशति स्म - "हे वत्साः ! निर्मुक्तमत्सरा गुणग्रहं भजध्वम् यतः - " पङ्कजान्यपि धार्यन्ते, गुणादानाज्जनैर्हृदि । राजाऽपि पद्मसाद्गुणद्वेषी न क्षीयते कथम् ?" ||२|| पङ्कात्-कचवराद् उत्पन्नान्यपि पद्मानि गुणादानाज्जनैर्हृदि धार्यन्ते, तथा ग्रहराज - चन्द्रोऽपि पद्मसाद्गुणद्वेषात् क्षयमाप्नोत्येवेत्यर्थः । ये नरा गुणवतां गुणान् ईर्ष्यादोषान्न प्रशंसन्ति ते क्षुद्रा नरा रुद्राचार्यवत् परभवेऽतिदुःखिता भवन्ति । तद्यथा - For Personal & Private Use Only तृतीयः पल्लवः ॥५१॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy