________________
श्रीधन्यचरित्रम्
॥५०॥
अतोऽहं पूर्वकृतैः सुकृतैर्धातोऽस्मि । ततोऽधुना ह्येकं पाथेयं याचे तद् मह्यं तदेव देयम्' । पुत्रैरुक्तम्- 'यत्तव प्रियं तद् मार्ग्यताम्' । तेनोक्तम्- हे वत्साः ? मम प्रिययाऽखण्डयाऽनया खट्वया सार्धमग्निसंस्कारः कार्यः । ईदमेव मम प्रियं पाथेयम्, अपरैः पाथैयैःसृतम्' । इत्येवं वदन् सपद्येव मूर्च्छितस्तां खट्वां प्रियामिव निबिडमालिङ्गय स्थितः । ततः क्षमापीठे उत्तारणाशयैः | पुत्रैरुत्पाट्यमानोऽपि यथाऽऽत्मा स्वकर्मोदयजनितां प्रकृतिं न मुञ्चति तथाऽसौ मुर्च्छितो मरणदशां प्राप्तोऽपि मृतकग्रन्थिपतनाद् | महतापि कष्टेन तां खट्वां न मुमोच । अथ तस्य कृपणस्य पत्नी पुत्रान् प्राह- 'हे वत्साः ! यदि यूयं जनकवत्सलाः पितुर्भक्त्या | प्राणेभ्योऽतिप्रियां खट्वां संप्रति मा मोचयत' । ततो मातुर्वचनात् पुत्रैर्भूमौ नाऽवतारितः, खट्वास्थितो मृतः । पश्चात् पित्राज्ञापालकैः पुत्रैः खट्वासहितः प्रेतवनं निन्ये, क्षिप्तश्च तथैव खट्वासहितश्चितायाम् । यावताऽग्निसंस्काराय प्रवर्तन्ते तावता श्मशानपालकश्चाण्डालस्तां खट्वामयाचत, कृपणपुत्रा नार्पयन्ति । ततस्तेन चाण्डालेन सह कलहो जातः । चाण्डालोऽग्निसंस्कारं कर्तुं न ददाति । एवं परस्परं कलहं जायमानं दृष्ट्वा स्वजनैः कृपणपुत्रा वारिताः - "अन्त्यजात्या सह कलहकरणं न श्रेयसे भवति । यतोऽत्र श्मशाने मृतकोपरिस्थं भव्यवस्त्रादिकं चाण्डाल एवं गृह्णाति, अतोऽस्मै दीयतां खट्वा । भवद्भिस्तु तातवचनमपि प्रमाणितं श्मशानं यावत् खट्वाऽऽनीता, अतः परं चाण्डालाय दीयताम्' । ततः स्वजनवचसा पर्यङ्को दत्तः । चाण्डालेन सपर्यङ्को विक्रेतुं चतुष्पथे धृतः । ततो नगरलोका मृतकखट्वेति कृत्वा केऽपि न गृह्णन्ति । निपुणा अपि मृतकशय्याऽशुभां खट्वाम् अमाङ्गल्यभयाद् मर्माऽनभिज्ञत्वाच्चोपेक्षन्ते ।
तस्मिन्नवसरे धन्यकुमारोऽपि स्वभाग्यपरीक्षार्थं व्यापाराय तत्रागत इतस्ततो निरीक्षते, एतावता स मृतकपर्यङ्को दृष्टः ।
Jain Education International
For Personal & Private Use Only
तृतीयः
पल्लवः
॥५०॥
www.jainelibrary.org