________________
श्रीधन्यचरित्रम्
* तृतीयः
पल्लवः
॥४९॥
लीनोऽभूत्। न कस्यापि गृहे याति, खान-पानादिकं च तत्र स्थित एव करोति, अज्ञानवशगो घटिकामात्रमपि तस्याः खट्वाया न दूरं याति, रात्रिंदिवं खट्वास्थितः कालं निर्गमयति । ये केचन धनलुब्धास्ते धनेष्वेवासक्तिं दधानाः प्राणेभ्योऽपि अधिकतरं धनं जानन्ति, परमेवं न विदन्ति सुरक्षिताऽपि लक्ष्मीः केनापि सार्द्ध न याति । यदुक्तम्-, "अभक्ष्यभक्षणेन शरीरक्षणतत्परं पुरुष मृत्युर्हसति । कथम् ? पश्यतु संसारिणो मूर्खत्वम्, मृत्यसमागते शरीरपोषणं व्यर्थ ज्ञेयम्। तथाऽनेकपापव्यापारेणाऽर्जितधनस्य क्षितौ क्षेपपरं पुरुषं धरा हसति। कथम् ? पश्यत्वस्य मूढत्वम्, मनसि जानाति इदं धनं कार्यकाले मम भोगाय भविष्यति, परं न वेत्ति लक्ष्मीर्भाग्यवतां भोगाय। न ज्ञायतेऽग्रे किं भावि? कस्यायत्ता भविष्यति, विचित्रा कर्मणां गतिः, अतो हसति। तथा कुलटा वनिता पुत्रलालनतत्परं स्वपतिं हसति। कथम् ?, अयं मूढो धवो मनसि हर्षति यदहमात्मजं पुत्र लालयामि, परं न जानाति कस्य वीर्येणोत्पन्नोऽयं पुत्रः । स्वयं तु षण्ढतुल्यः स्ववीर्योत्पन्नपुत्रगर्वेण गर्जतीति हसनाभिप्रायः । पापानुबन्धिपुण्यान्विताः पुरुषाः स्वकृताऽन्त । रायकुकर्मभिः प्राप्तामपि श्रियं भोक्तुं समर्था न भवन्ति, काकाः द्राक्षापाकाऽशनकाले किं चञ्चुपाकाऽन्विता न भवन्ति? अपितु भवन्त्येव । एवंविधः स कृपणराट् वृद्धावस्थाऽन्त्यदशां प्राप्तोऽपि, अहो ! मोहाद्ज्वररज्ज्वावलम्ब्यपि व्ययभयाद् भेषजद्वेषजम्बाले ऽपतत्, विमुक्तं भवति ? - ज्वरबाधाविधुरोऽपि द्रव्यव्ययभिया औषधं न करोत्येव अथ व्याप्तरोगं तं मृत्युसमयेऽमुत्र सुखहेतवे पुण्यं ग्राहयितुं पुत्राः पितरं पप्रच्छु: - 'हे तात ! धनं क्वास्ति, यधर्मस्थाने उप्तं तव भवान्तरसहायि भवति । ततः स कृपणो मरणसमये पुत्रान् प्रति भणति स्म-'हे पुत्राः ! मया पुरा कोटिसङ्ख्यं द्रव्यं धर्मरीत्या व्ययितमस्ति,
१. "मृत्यु शरीरगोप्तार, रक्षितारं धनं धरा । दुश्चारिणीव हसति, स्वपतिं पुत्रवत्सलम्॥१॥ २. जम्बालः पङ्कः। ३. भवान्तरे।
॥४९॥
en Education
a l
For Personal Private Use Only
www.jainelibrary.org