________________
श्रीधन्यचरित्रम्
॥४७॥
अथ तृतीय: पल्लव:
अथ धनसारेण शिक्षिता अपि नीतिमार्गयुक्तियुक्ताभिः शिक्षितोक्तिर्ज्वालाभिर्ज्वलितान्तःकरणा मेघधाराभिर्मुद्गशैलवद् | वर्धितजडताग्रहाः पुनरेकदा पितरं प्रत्यूचुः - "हे तात! यूयमस्माकं शिक्षां दातुमभ्युद्यताः परं स्वचेतसि विचारयथ येन होडां कृत्वा द्विलक्षद्रव्यमुपार्जितं तद् द्यूतम्, परं वणिक्कला न । वयं द्यूतव्यसनकुशलस्य धन्यस्य गुणश्लाघां कथं सहामहे ? । वयं तु व्यापारक्रियया यो द्रव्यमुपार्जयति तस्य प्रशंसां कुर्महे । द्यूतकलया लाभस्तु कादाचित्कः, हानिस्तु सार्वकालिकी । कुलीनानामनुचितो द्यूतव्यवसायः । कदाचिद् भिल्लशरः सरलगतिप्राप्तस्तदा किं जातम् ? । व्यापारक्रियया परीक्षा सुभगा | भवति न तु च्छलातिक्रियया" । एवं तैः पुत्रैः कृतानि वक्रोक्तिगर्भितवचनानि श्रुत्वा पुनर्भाग्यपरीक्षार्थं धनसारो वाणिज्याय स्वर्णमाषकाणां शतं शतं चतुभ्र्भ्योऽपि दत्तवान् । ततस्त्रयो वृद्धभ्रातरः स्वकृताऽन्तरायोदयाद् मन्दभाग्ययोगात् स्वर्णशतमाषकव्यापारे मूलद्रविणमप्याशु निर्गमयामासुः । ततो विलक्षमुखा गृहमागताः । ततोऽन्यदिने धन्यो वाणिज्यार्थ निर्गतः, | पाटकद्वारमागत्य शकुनानि मार्गयति । स्वर्णादिवाणिज्यचतुष्पथदिशायां शकुना न भवन्ति, एवमन्यवाणिज्यदिशि शकुनानि गवेषयति, परमीप्सितार्थसिद्धिकराणि शकुनानि न भवन्ति । ततः कियद्वेलानन्तरं काष्ठापीठीचतुष्पथं प्रति अतिलाभकारिण | शकुनानि संजातानि अथ धन्यकुमारस्तान्यभिवन्द्य तस्मिन् चतुष्पथे गतः ।
इतश्च तत्रैव पुरे धनप्रियो नाम्ना श्रेष्ठ्यभूत। स च कीदृशः ?, 'दान' इति नाम्नापि त्रासमाप्नोति, कस्यापि दान-वार्ताश्रवणे | ज्वरश्चटति । तस्य ग्रन्थौ षट्षष्टिकोटिवित्तमस्ति, परन्तु कृपणात्मनां कोटीरः स जीर्णं, शतशः स्थाने शीर्ण परैस्त्य-क्तमेतादृशे
Jain Education International
For Personal & Private Use Only
तृतीयः
| पल्लवः
॥४७॥
www.jainelibrary.org